संस्कृत भाषा


जयतु जयतु भुवि संस्कृत भाषा,तत्व ज्ञान प्रकाशा ।
सर्वं सुलभं तव सांनिध्ये,ब्रह्म तत्व परिभाषा।।
अयि मम मातः मधुरालापे,
वरदायिनि मे शुचि निष्पापे,
बालाः धीराः ज्ञानविहीनाः,समागताः तव दासाः।
जयतु जयतु भुवि संस्कृतभाषा,तत्वज्ञान प्रकाशा।।
भासो माघः कालिदासः,
वाणो हर्षो दण्डी व्यासः,
सिद्धाः शुद्धाः कवयो दिव्याः,छिन्ना तेषां पाशाः।
जयतु जयतु भुवि संस्कृत भाषा,तत्वज्ञान प्रकाशा।।
रामः कृष्णः मनुकुल जाताः,
तव कृपया ते भुवि विख्याताः,
वेद पुराणाखिल ननु ग्रन्थाः,काव्यं तथेतिहासाः।
जयतु जयतु भुवि संस्कृतभाषा,तत्वज्ञान प्रकाशा।।

या या वांछा मनसि नरस्य,
पूर्णा भवति क्षिप्रं तस्य,
ध्यान समाधि प्राणायामाः,सत्यशौचविश्वासाः।
जयतु जयतु भुवि संस्कृतभाषा,तत्व ज्ञान प्रकाशा।।
द्वारा - समर्थ श्री (संस्‍कृतगंगा फेसबुकवर्गे)

टिप्पणियाँ