वसन्तः


प्रणय कामिनि कोमलहृदये,पुरतःपश्य वसन्तः,।
हा हतभाग्ये नववयशीले,निकषा चास्ति न कान्तः।।1
वहति समीरो मंदं मंदं,नीत्वा सौरभ खाद्यम्।
अतिकुलमाला मत्ता विपिने,जनयति गुंजा वाद्यम्।।
कोकिल कूजति रसालविटपे,मा भव भ्राता भ्रान्तः ।।2
धरा सज्जिता तस्याःवदने,दिव्या पीत शाटिका,
खगकुल कलरब गुंजित मधुरा,भव्या सुमन वाटिका।।
गगनं स्वच्छं धरा समृद्धा,भानुः प्रीत्या शान्तः।।3
गंगा नीरं पीत्वा तीरे,स्मृत्वा हर हर गंगे।
भाले भस्म कण्ठे माला,निवसन् साधु संगे।।
सरित् व¬रायाः कृपा प्रसादात्,शिष्टः कोपि न प्रान्तः4
प्रणयकामिनि कोमलहृदये,पुरतःपश्य वसन्तः।
हा हतभाग्ये नव वयशीले,निकषा चास्ति न कान्तः
द्वारा - समर्थ श्री (संस्‍कृतगंगा फेसबुकवर्गे)

टिप्पणियाँ