बहुभिः विराड्भिः भृशं प्रकाशमानैः च तारकैः परिपूर्णम् अनन्तम् आकाशम् इव आसीत् पुस्तकमेलायाः तत् चित्रम्। लक्षशः योजनानि यावद् विस्तीर्णाः तारकाः यथा अनन्ते आकाशे प्रकाशस्य बिन्दवः इव लक्ष्यन्ते तथैव विश्वस्य विविधेभ्यः भागेभ्यः आगताः शतशः विद्वांसः मेलाम् एतां दीपयन्ति स्म। भारतस्य विविधेभ्यः भागेभ्यः प्रायः ८००० जनाः आगताः आसन्। विविधानां संस्कृतसम्बद्धसंस्थानां प्रायः ३०० पुस्तकानि प्रकाशितानि। प्रायः ६०० संस्कृतसम्भाषणशिबिराणि सम्पन्नानि। विविधानां प्रकाशकानां १५४ पुस्तकापणेभ्यः प्रायः त्रिकोटिरूप्यकाणां पुस्तकनि विक्रीतानि। संस्कृतग्रामः, संस्कृतविपणी, संस्कृतप्रदर्शनीभिः वातावरणम् ऊर्जितम् आसीत्। प्रतिसायं एस्.पी.बालसुब्रह्मण्य-सदृशाः कलाकाराः स्वकलाभिः संस्कृतम् अर्चितवन्तः। राज्यद्वयस्य मुख्यमत्रिणौ, एकस्य राज्यस्य राज्यपालः, केषाञ्चित् राज्यानां शिक्षामन्त्रिणः, मूर्धन्याः संस्कृतविद्वांसः, प्रबन्धनशास्त्रस्य दिग्गजाः, भूतपूर्व-न्यायमूर्ति-लाहोटी-सदृशाः विधिज्ञाः च उपस्थाय संस्कृतमातुः सेवनाय बद्धकटितां प्रदर्शितवन्तः। शलाकापरीक्षा, कविसम्मेलनम्, आशुकाव्यरचना, संस्कृतचित्रकला, संस्कृतगर्बा, बीहू, संस्कृतयक्षगानम्.... अवर्णनीयं प्रत्यक्षानुभववेद्यं चैव आसीत् इयं संस्कृतपुस्तकमेला!! मेलायाः कतिचनचित्राणि उपरिदत्त-जाल-सङ्केते द्रष्टुं शक्यानि।
4 تعليقات
Happy Lohri To You And Your Family..
ردحذفLyrics Mantra
Ghost Matter
Download Free Music
Music Bol
mai b gaya tha bndhu
ردحذفaisa adbhut drishya aaj tak nahi dekha tha
सम्मेलनवृत्तान्ताय अनेकशः धन्यवादाः । कार्यालयीन कार्यवशात् अहं तत्रगमने अशक्यमासम्।
ردحذفप्रिय,
ردحذفभारतीय ब्लॉग अग्रीगेटरों की दुर्दशा को देखते हुए, हमने एक ब्लॉग अग्रीगेटर बनाया है| आप अपना ब्लॉग सम्मिलित कर के इसके विकास में योगदान दें - धन्यवाद|
अपना ब्लॉग, हिन्दी ब्लॉग अग्रीगेटर
अपना खाता बनाएँ
अपना ब्लॉग सम्मिलित करने के लिए यहाँ क्लिक करें