फायरफाक्‍स अंतरजालचालकस्‍य नूतनं हिन्‍दीसंस्‍करणम् ।


 
मित्राणि
सम्‍प्रति हिन्‍दीभाषाया: महत्‍वं वर्धते इति तु सर्वे मन्‍यन्‍ते एव ।  किन्‍तु एतस्‍य साक्षात् प्रमाणं सम्‍प्रति दृष्‍यते ।  अधुना फायरफाक्‍स इति अंतरजालचालकनिर्माता सेवा इत्‍यस्‍य नूतनं हिन्‍दीसंस्‍करणं प्रकाशितवती अस्ति ।  अस्य चालकस्‍य विष्‍ये अधिकं तु वक्‍तुं न शक्‍नोमि यतोहि अहमपि इदानीमेव एतस्‍य तलपूर्ति: कुर्वन्‍नस्मि किन्‍तु निश्‍चयेन एतदुपयोगी भविष्‍यति एव ।  सम्‍प्रति अस्‍माकं अपि दायित्‍वमस्ति अस्‍य संस्‍करणस्‍य उपयोगं कर्तुम् ।  वयं यावत् अस्‍य संस्‍करणस्‍य उपयोगं कुर्म: तावत् हिन्‍दीजनानां उत्‍साहवर्धनं भविष्‍यति ।  अस्‍तु तर्हि एतत् संस्‍करणं तलपूरयतु अधस्‍तात् श्रृंखलात् ।


तलपूर्य, पुनश्‍च प्रयोगं कृत्‍वा कृपया आत्‍मन: अनुभवा: आवंटयन्‍तु अत्र ।  धन्‍यवादा:


टिप्पणियाँ