क्रोधः पराजितः


क्रोधः पराजितः

भ्राता गौतमबुध्दस्य शिष्यत्वं स्व्यकरोत् अत: कश्चन बुध्दाय अक्रुध्यत् | पूर्वमेव तस्य मनसि बुध्दविषये तिरस्कार: आसीत् | स: वर्धमान: अभवत् | झटिति उत्थाय स: बुध्दस्य पुरत: निन्दाशब्ददानम् कृतवान् | बुध्दस्य शिष्या: तम् अवरोध्दुम् इच्छन्त: आसन् | किन्तु बुध्द: तान् सर्वान् तुष्णीकृतवान् | स: मनुष्य: निरन्तरं कटुवचनानि वदन् आसीत् | बुध्द: क्रुध्येत् किमपि प्रत्युत्तरं कुर्यात् इति स: अमन्यत | किन्तु बुध्द: शान्तचित्त: आसीत् |
जामितं भुत्वा स: अपि तुष्णीकृतवान् | तदा बुध्द: तम् अपृच्छत् "भवत: गृहम् अतिथय: आगच्छन्ति वा ? भवान् आदरसत्कारं करोति वा? तेभ्य: भोजनं पानकं च अर्पयति वा?"
" आम् , आगच्छन्ति | सत्कारमपि करोमि | किमर्थं पृच्छति भवान् ?" स: आश्चर्येन पृष्टवान् |
" यदि ते भोजनं न स्वीकुर्वन्ति चेत् भवान् किम् करोति ? " ---- बुध्द:
" चेत् अहम् खादामि भोजनम् |" ------ स: मनुष्य:
" भो:, इदानीं भवान् मह्यम् कटुवचनानि दत्तवान् | अहम् न स्वीकृतवान् | अत: तानि वचनानि भवान् एव स्वीकंरोतु | "
तस्य मुखे सम्भ्रमं दृष्ट्वा बुध्द: अग्रे अवदत् , " अन्य: कोsपि क्रुध्यति चेत् य: स्वयमपि क्रुध्यति स: पराजयं प्राप्नोति | य: विवेकबुध्या तुष्णीभवति स: विजयं प्राप्नोति |

टिप्पणियाँ

एक टिप्पणी भेजें