अहं बहुवारं श्रुतवान् यत् संस्कृतस्य पक्षधरा: तु न्यूना: ,
संस्कृतस्य समाजे प्रसंसका: नैव सन्ति बहु अधिका:  । संस्कृतस्य उपयोग: नास्ति एव  ।  अग्रे संस्कृतस्य भविष्यम् अपि चमत्कृतं नास्ति इति  ।  
इतोपि बहु किमपि मया श्रुतं समये-समये ।  
किन्तु समाजे मया संस्कृतस्य बहु आदरं दृष्टम्  ।  जना: संस्कृतम् इच्छन्ति अपि आदरम् अपि ददति अथ च अवगन्तुं प्रयासम् अपि कुर्वन्ति  । 
पुन: एकवारम् अहं विचारितवान् यत् इति अपि भवेत् यत् समाजे यथा संस्कृतस्य प्रभाव: वर्धते तथैव अंतरजाल जगति अपि संस्कृतस्य प्रभाव: वर्धेत्  ।  एवं विचार्य अहं अस्या: (संस्कृतम्-भारतस्य जीवनम्) इति जालसूच्या: निर्माणं 2010तमे वर्षे अप्रैल मासे 3 दिनांके कृतवान्  ।  प्रथमप्रयास: तु उत्तम: एव प्रतिभाति स्म किन्तु एकस्मिन् मासे एव अहं ज्ञातवान् यत् एवं तु संस्कृतस्य प्रभाव: नैव वर्धिष्यते  ।  तदा अहं चिन्तितवान् यत् यदि संस्कृतस्य जालजगति प्रभाव: वर्धनीय: अस्ति चेत् ये अपि जालजगति संस्कृतज्ञातारा: सन्ति ते पूर्वम् एकत्रीभवेयु:  ।  यदि तेषाम् एकत्रीकरणं न भविष्यति चेत् संस्कृतस्य प्रगति: तु सम्भवत: दससु वर्षेसु अपि भवितुं नैव अर्हति  । 
एतत् सर्वं विचार्य मया संस्कृतविद्वान्सानां अन्वेषणम् आरम्भं कृतम्  ।  केचन् मिलितवन्त: किन्तु तेषु अपि केचन् एव लेखननिमन्त्रणं स्वीकृतवन्त:  ।  चेदपि मया पराजयं न अंगीकृतम्  ।  अहं प्रतिदिनं जनानां संपर्कं साधितवान् एवं विधा शनै:-शनै: जनानां एकत्रीकरणम् अपि अभवत्  ।  जना: अनुशरणम् अपि प्रारम्भं कृतवन्त:  ।  अस्तु अद्य अस्य संस्कृतजालसंकलकस्य अनुशर्तार: 100 अभवन्  ।  अस्य लेखका: अपि सम्प्रति 24 अभवन्  ।  
अस्मिन् अवसरे अहं अस्य जालसंकलकस्य कृते एकं डोमेन नेम स्वीकृतवान्  ।  अद्य आरभ्य अस्य नूतननामकरणम् अपि कृतम् अस्ति  ।  अस्य नूतनं डोमेन नेम http://www.sanskritjagat.co.in/ अस्ति अथ च जालसंकलकस्य नूतनं नाम संस्कृतजगत् इति अस्ति  ।  एतत् नाम संस्कृतजगत: अधिकारिण: चिन्तितम् अस्ति  ।।


केचन् एव दिवसेसु अस्य संकलकस्य नूतनं परिवर्तनं भवन्त: द्रष्टुं शक्क्ष्यन्ति  ।  तावत् सर्वं एवमेव चलिष्यति  ।  
सम्प्रति भवन्त: स्वयमेव वदन्तु यत् क: वदति संस्कृतस्य जालजगति उत समाजे उपेक्षा अस्ति  ।  
0 टिप्पणियाँ