ब्रिटिश आंग्‍ल-बालका: वैदिक मन्‍त्रानाम् उच्‍चारणं कुर्वन्‍त: सन्ति- British Kids Chanting Vedic Sanskrit Mantras

 

              अस्‍माकं राष्‍ट्रस्‍य मुख्‍या भाषा कदाचित् संस्‍कृतमेव आसीत् ।  स: पुराकाल: आसीत् ।  तदा जना: संस्‍कृतमेव वदन्ति स्‍म ।  किन्‍तु आधुनिक काले अस्‍माकं देशीया: जना: ने केवलं संस्‍कृतस्‍य त्‍यागम् एव कृतवन्‍त: अपितु अवसरे-अवसरे ते संस्‍कृतस्‍य अवमानना अपि कुर्वन्ति  ।  महत् कष्‍टस्‍य विषय: अस्ति एष: यत् यां भाषां देवभाषा इति कथ्‍यन्‍ते, यस्‍या: भाषाया: उपयोगिताविशये वैज्ञानिका: प्रमाणं ददति ।  यस्‍या: भाषाया: महत्‍वं विश्‍वे सर्वत्र प्रचलिता अस्ति तस्‍या: एव भाषाया: तस्‍य गृहराष्‍ट्रे एव सम्‍माननं नास्ति ।

               अद्य अस्‍माकं शिक्षापद्धति: अपि नाश्‍यमाना अस्ति ।  तत्र सर्वत्र आंग्‍लं प्रविशति ।  किन्‍तु वहव: देशा: सन्ति यत्र नियमित रूपेण अथ च अनिवार्यरूपेण संस्‍कृतस्‍य अध्‍ययनम् अध्‍यापनं च चलति ।  अस्‍य लेखस्‍य पूर्वमेव मया एक: लेख: इतोपि लिखित: आसीत् यस्मिन् चलचित्रे ब्रिटिशविद्यालये जायमानस्‍य संस्‍कृतविषयस्‍य शिक्षा दर्शिता आसीत् ।  अस्मिन् लेखे अहं भवतां पुरत: एकम् इतोपि चलचित्रं स्‍थापयामि यस्मिन् चलचित्रे ब्रिटिशबालका: वैदिकमन्‍त्राणां सस्‍वर पाठ: कुर्वन्ति  ।

 

British kids chanting sanskrit mantras

            अस्मिन् चलचित्रे लघु-लघु व्रिटिशबालका: वैदिकमन्‍त्राणां सस्‍वर पाठ: कुर्वन्ति  ।  प्रायश: तेषाम् उच्‍चारणम् अपि सम्‍यक् एव प्रतीयते ।  एवं वक्‍तुं शक्‍यमस्ति यत् संस्‍कृतस्‍य महत्‍वं सम्‍प्रति आंग्‍लीया: अवगच्‍छन्ति एतदर्थमेव ते स्‍वबालकान् संस्‍कतं पाठयन्ति, संस्‍कृतोच्‍चारणं कारयन्ति च  ।

          यदि सम्‍प्रति अपि वयं संस्‍कृतं न अंगीकुर्म: चेत् अस्‍माकं सर्वं वैशिष्‍ट्यं गमिष्‍यति ब्रिटिशादि जनानां पार्श्‍वे यतोहि ते संस्‍कृतस्‍य सम्‍मानं कुर्वन्‍त: सन्ति अधुना ।

 

संस्‍कृतजगत्

टिप्पणियाँ