गूगल ड्राइव - ईजगति एका नूतनी मंजूषा ।


गूगल ड्राइव गूगल.काम इत्‍यस्‍य जालपृष्‍ठस्‍य नूतनी मंजूषा सेवा अस्ति ।  गूगल.काम इत्‍येतस्मिन् विषये तु सम्‍भवत: कमपि किमपि वक्‍तुं नैवास्ति ।  गूगल.काम एकम् ईअन्‍वेषणयन्‍त्रमस्ति ।  अस्‍य मुख्‍यकार्यं जालजगति विषयविशिष्‍टाधारेण जालपृष्‍ठानाम् अन्‍वेषणमस्ति ।  यथा - कश्चित् संस्‍कृतविषयम् अधिकृत्‍य किमपि अन्‍वेषयति ।  स: गूगलअन्‍वेषणयन्‍त्रस्‍य अन्‍वेषणमंजूषायाम् आत्‍मन: विषय: पूरयेत् ।  प्रवेश पिंजस्‍य नोदनानन्‍तरं संस्‍कृतविषयम् अधिकृत्य शताधिकश्रृंखला: प्राप्‍यते ।  ता: श्रृंखला: संस्‍कृतस्‍य विभिन्‍नविषयान् वहन्‍त्‍य: भवन्ति ।  तासु श्रृंखलासु या श्रृंखला भवत: कार्यस्‍य अस्ति तां श्रृंखलां नोदयेत् ।
गूगल.काम इत्‍यस्‍य अन्‍यानि अपि पृष्‍ठानि सन्ति ।  गूगल स्‍य एव ईपत्रसेवा अस्ति जीमेल.काम इति ।  अत्र भवन्‍त: आत्‍मन: ईसंकेत: निर्मूल्‍येन एव पंजीकर्तुं शक्‍नुवन्ति ।
ब्‍लागर अपि गूगलस्‍य एव सुविधा अस्ति येन माध्‍यमेन भवान् आत्‍मन: विचाराणां कृते एकां जालसूचिकां निर्मूल्‍येन एव प्राप्‍नोति ।
डाक्‍यूमेन्‍ट गूगलपृष्‍ठस्‍य सा सुविधा अस्ति येन माध्‍यमेन भवान् आत्‍मन: ग्रथनानि अन्‍यान् प्रति प्रेषितुं, स्‍वीकर्तुं च शक्‍नोति ।  सम्‍प्रति एतस्‍या: एव सेवाया: विस्‍तारं कृत्‍वा गूगलपृष्‍ठेन गूगल ड्राइव इति नामकस्‍य सेवाया: विस्‍तारं कृतमस्ति ।
गूगलड्राइव मध्‍ये सम्‍प्रति भवन्‍त: 5 जी.बी. इत्‍यस्‍य नि:शुल्‍क स्‍मृति: प्राप्‍नुवन्ति ।  एतत् इतोपि वर्धितुं शक्‍यमस्ति मूल्‍येन ।
यथा जालजगति बहूनि पृष्‍ठानि मंजूषाया: सेवां ददति तथैव गूगलड्राइव अपि अस्ति यत्र भवन्‍त: आत्‍मन: ग्रथनानि, मृदुवसनानि, गीतानि, चित्राणि इत्‍या‍दीनि बहूनि वस्‍तूनि संरक्षितुं शक्‍नोति, सहैव तेषाम् सरलतया आवंटनमपि कर्तुं शक्‍नोति ।

टिप्पणियाँ