श्रीहरिदास-पंचकम्


स्नेहार्द्रं मुखमण्डलं सुललितं गौरप्रभाभास्वरं,
दिव्यं दैन्यविदारकं मुनिवरं सर्वार्थ सिद्धिप्रदम्।
नैराश्येभ हरिं हरेःपदयुगं चित्ते सदा धारकं,
वन्देहं हरिदासनामकमजं श्री वैष्णवं सद्गुरुम्।।1
वेदज्ञान परायणान् द्विजवरान् संध्यादिपूजापरान्,
सत्यान्वेषण तत्परान् सुविमलान् स्नेह प्रदानेरतम्।
कृष्णायां निवसन् सदा बुधजनैः पुष्पादिना पूजितं,
वन्देहं हरिदासनामकमजं श्री वैष्णवं सद्गुरुम्।।2
साधूनां समदर्शिनां सुमनसां संगे सदा तत्परं,
धेनूनां परिपालने सुनिरतं गोविन्दगोपूजकम्।
वृन्दारण्य समर्चना परिवृतं श्रीराधिकाराधकम्,
वन्देहं हरिदासनामकमजं श्री वैष्णवं सद्गुरुम्।।3
वैराग्याम्वुधि पंकजं सुविमलं ज्ञानार्कभा भासितं,
भक्त्या निर्मल वारिणा विकसितं सारल्य संपोषितम्।
सच्चारित्र्य सुगन्धसार सरसं योगाधिरूढं मुनिं,
वन्देहं हरिदासनामकमजं श्री वैष्णवं सद्गुरुम्।।4
श्यामागा सरला च भानुदुहिता पापापहा पुण्यदा,
गौरांगा हरिपादपूतसरला गंगा तरंगाकुला।
कृष्णेशौ जलरूपिणौ हि भुवने मत्वेति वासप्रियं,
वन्देहं हरिदासनामकमजं श्री वैष्णवं सद्गुरुम्।।5
हरिगुरू प्रसादाय,सत्यार्थ बोधलब्धये।
पंचकं कुरुते प्रीत्या,त्र्यम्बको विनयान्वितः।।

शार्दूल विक्रीडित छंद
द्वारा - समर्थ श्री (संस्‍कृतगंगा फेसबुकवर्गे)

टिप्पणियाँ