यज्ञं चेत् हिंसा कथं ।। वेद विशिष्‍टम् ।।


मन्‍त्र - अग्‍ने यं यज्ञमध्‍यवरं विश्‍वत: परिभूरसि । स इद्देवेषु गच्‍छति ।। (ऋग्‍वेद - 1/1/4)

भावार्थ: - भो अग्निदेव । भवान यं हिंसारहितयज्ञं सर्वत: आवृयते स: यज्ञ: एव देवानां प्रति गच्‍छति ।।

विशेष - गतशताधिकेषु वर्षेसु केचन् विक्षिप्‍तमस्तिष्‍कविद्वांस: वैदिकयज्ञानामुपरि हिंसाजन्‍यआरोपणं क्रियन्‍ते स्‍म । आश्‍चर्यं एतदस्ति यत् एते सम्‍भवत: सम्‍पूर्णं ग्रन्‍थं अधीत्‍वापि ग्रन्‍थारम्‍भे एव दत्‍तस्‍य मन्‍त्रस्‍य अर्थं कर्तुं न शक्‍तवन्‍त: । प्रथम मण्‍डलस्‍य प्रथम सूक्‍तस्‍य एतत् चतुर्थमन्‍त्रं वदति यत् य: हिंसारहितयज्ञ: अग्निना सर्वत: आवृयते स: यज्ञ: एव देवानां प्रति गच्‍छति । इति ।  यज्ञायोजनं क्रियते देवानां सन्‍तुष्टिकरणार्थमेव, य: यज्ञ: देवानां प्रति न गच्‍छति तस्‍य आवश्‍यकता एव नास्ति, पुनश्‍च क: इच्‍छति यत् तस्‍य प्रार्थना स्‍वीकृत: न भवेत् । 

-- 
भवदीय: - आनन्‍द:

टिप्पणियाँ

एक टिप्पणी भेजें