सुभाषितानि - 2






विदॆशॆषु धनं विद्या व्यसनॆषु धनं मतिः ।
परलॊकॆ धनं धर्मः शीलं सर्वत्र वै धनम् ॥


नास्ति विद्यासमं चक्षुर्नास्ति सत्यसमं तपः ।
नास्ति रागसमं दुःखं नास्ति त्यागसमं सुखम् ॥

नाना शास्त्रं पठेन्लोके नाना दैवत्पुजिनम्।
आत्मज्ञान विना पार्थ सर्व कर्म निरर्थकम्॥



पद्माकरं दिनकरॊ विकचं करॊति चन्द्रॊ विकाशयति कैरवचक्रवालम् |
नाभ्यर्थितॊ जलधरॊऽपि जलं ददाति सन्तः स्वयं पराहितॆषु कृताभियॊगाः


सर्वतीर्थमयी माता सर्वदेवमय: पिता
मातरं पितरं तस्‍मात्‌ सर्वयत्‍नेन पूजयेत्‌. 


एतानि सुभाषितानि अपि मम मित्रं श्रीशैलेन्‍द्रवर्येण प्रेषितमस्ति । 
तस्‍य हार्द: धन्‍यवाद:

टिप्पणियाँ