सुभाषितानि - 4





गुणायन्ते दोषाः सुजनवदने दुर्जनमुखे
गुणा दोषायन्ते तदिदमपि नो विस्मयपदम् ।
महामेघः क्षारं पिबति कुरुते वारि मधुरं
फणी क्षीरं पीत्वा वमति गरलं दुःसहतरम् ॥
ववनेऽपि सिंहा मृगमांसभक्षिणो
बुभुक्षिता नैव तृणं चरन्ति ।
एवं कुलीना व्यसनाभिभुता
न निचकर्मणि समचरन्ति ॥
न सा सभा यत्स् न सन्ति वृद्धाः
वृद्धा न ते ये न वदन्ति धर्मम् ।
धर्मो न वै यत्र च नास्ति सत्यम्
सत्यं न तद्यच्छलनानुविद्धम् ॥
यदा किज्न्चिज्झोऽहं गज इव मदान्धः समभवम्
तदा सर्वझोऽस्मीत्यभवदवलिप्तं मम मनः ।
यदा किज़्नित् किज़्नित् वुधजनसकाशादवगतम्
तदा मूर्खोऽस्मीमिति ज्वर इव मदो मे व्यपगतः ॥
 एतानि सुभाषितानि मम मित्र श्रीशैलेन्‍द्रवर्येण प्रेषितमासीत् । 
तस्‍मै हार्द: धन्‍यवादा: 

टिप्पणियाँ