जलबिन्दुनिपातेन क्रमशः पूर्यते घटः ।
स हेतुः सर्वविद्यानां धर्मस्य च धनस्य च ॥
रत्नैर्महाब्धेस्तुतुषुर्न देवा न भोजिरे भीमविषेण भीतिम् ।
सुधां विना न प्रययुर्विरामं न निश्चितार्थाद्विरमन्ति धीराः ॥
गुणायन्ते दोषाः सुजनवदने दुर्जनमुखे
गुणा दोषायन्ते तदिदमपि नो विस्मयपदम् ।
महामेघः क्षारं पिबति कुरुते वारि मधुरं
फणी क्षीरं पीत्वा वमति गरलं दुःसहतरम् ॥
जाड्यं ह्रीमाति गण्यते व्रतरुचौ दम्भः शुचौ कैतवं
शूरे निर्घुणता मुनौ विमतिता दैन्यं प्रियालापिनि ।
तेजस्विन्यवलित्पता मुखरता वक्तर्यशक्तिः स्थिरे
तत्को नाम गुणो भवेत्स गुणिनां यो दुर्जनैर्नाङ्कितः ॥
लोभश्चेदगुणेन किं पिशुनता यद्यस्ति किं पातकैः
सत्यं चेत्तपसा च किं शुचि मनो यद्यस्ति तीर्थेन किम् ।
सौजन्यं यदि किं निजैः स्वमहिमा यद्यस्ति किं मण्डनैः
सद्विद्या यदि किं धनैरपयशो यद्यस्ति किं मृत्युना ॥
मौनान्मूकः प्रचनपटुश्चाटुलो जल्पको वा
घृष्टः पाश्चेर् भवति च वसन्दूरतोप्यप्रगल्भः ।
क्षान्त्या भीरुर्यादि न सहते प्रायशो नाभिजातः
सेवाधर्मः परमगहनो यो्गिनामप्यगम्यः ॥
एतानि सुभाषितानि मम मित्र श्रीशैलेन्द्रवर्येण प्रेषितानि सन्ति ।
तस्मै हार्द: धन्यवादा: ।।
टिप्पणियाँ
एक टिप्पणी भेजें