भगवद्गीतां पठति चेत् धनं प्राप्नोति ! (कथा)


        पुत्रः विद्यार्थं विदेशं गन्तुं सज्जीकुर्वन् अस्ति । पिता आगत्य भगवद्गीता-पुस्तकं पुत्राय दत्तवान् ।
"पुत्र! प्रतिदिनं रात्रिनिद्रायाः पूर्वं गीतायाः एकं पृष्टं पठतु । अनन्तरमेव निद्रां करोतु" इति पुत्रम् उक्तवान् पिता । "अस्तु तात । तथैव करोमि" इति पुत्रः अवदत्।
पुत्रः विदेशं गत्वा किञ्चित् कालं जातम् । तस्य समिपे मातापित्राभ्यां दत्तं धनं सर्वं यापितम् । अधिकधनार्थं पितरम् दूर्वाण्या आहूतवान् । "यथा अहं सूचितवान् तथा भवान् गीतआपाठं करोति वा प्रतिदिनं?" इति कुतूहलेन पृष्टवान् जनकः । "आम् तात । प्रतिदिनं निद्रायाः पूर्वं पठमि" इति प्रत्युत्तरं दत्तवान् पुत्रः । "भगवद्गीतायाः त्रिंषत्तमं पृष्टं यदा पठति तदा धनं दास्यामि", इति उक्तवान् पिता ।


      "कीदृशः एषः मम जनकः, पुत्रः जीवनार्थं धनं याचति किन्तु सः गीतां पठितुं वदति!" इति चिन्तयन् संभाषणं तत्रैव समापितवान् पुत्रः ।


          कथमपि सप्ताहद्वयं स्वस्य धनेन विना समयं यापितवान् पुत्रः । किन्तु कीयत् कालं तथैव सम्भवेत्? पुनः गृहं आहूतवान् । एतद्वारं मात्रा सह् वार्तालापं कृतवान् । स्वस्य समस्याः मातरं कथितवान् । मातुः हृदयं नवनीतमिव खलु ! सा पतिम् पुत्रस्य दुःस्थितिं निवेदितवति । किन्तु पितुः हृदयं मातुः इव न ! "पुत्रं वदतु गीतायाः त्रिंषत्तमं पृष्टं पठितुम्। अनन्तरमेव धनं दास्यामि " इति किञ्चित् कोपेन उक्तवान् पिता ।


         एवमेव बहु कालं जातम् । पुत्रः धनं याचति पिता गीतां पठितुं तं वदति । इदं सर्वं जनन्या न सहितम् । पुत्रस्य विषये पिता एवं कथं प्रवर्तयेत्? पतिं कोपेन उक्तवति "कीदृशं भवतः पुत्रवात्सल्यम्? तत्र सः कष्टान्


अनुभवति किन्तु भवान् तस्मै धनं अदत्त्वा एव गीतां पठितुं आज्ञापयति । यदी भवान् धनं न प्रेषयति तर्हि अहमेव कथमपि तस्मै प्रेषयामि" इति । तिः पत्निं प्रीत्या पश्यन् अवदत् "हे मम प्रियपत्नि! पुत्रः सुखेन जीवेत् इति ममापि महती इच्छा । तस्य सौकर्यार्थं गीतापुस्तके प्रति त्रिंषत् पृष्टैः किञ्चित् किञ्चित् धनं स्थापितवान् । यदि सः वस्तुतया गीतां पठेत् तर्हि धनमपि प्राप्नुयात् । किन्तु सः पुस्तकं नैव उद्घाटितवान् । तदार्थम् धनं तत्र अस्ति इति न जानाति । किन्तु प्रतिदिनं गीतां पठामि इति असत्यमपि वदति । कथम् अहं तस्मै धनं प्रेषयानि?" इति ।

           इदं कथनं पुत्रं अपि उक्तवति माता । स्वदोषं ज्ञात्वा पुत्रः पितरं क्षमाम् याचितवान् । तदा आरभ्य भगवद्गीतां अपि पठति स्म धनं अपि प्राप्नोति स्म !


    एषा कथा शैलेन्‍द्रकुमारतिवारीवर्येण फेसबुक सामाजिकपृष्‍ठे प्रकाशितम् आसीत् ।  तस्‍मै महत् धन्‍यवादा: ।

टिप्पणियाँ

एक टिप्पणी भेजें