स्‍वस्‍य चित्राणि विविधविधानि कुर्वन्‍तु – (Photofunia) Conver Your Picture Into New








          अद्य भवतां कृते एकस्‍य जालपृष्‍ठस्‍य परिचयम् आनीतवान् अस्ति यत्र भवान् आत्‍मानं चित्रं अन्‍यविधै: कर्तुं शक्‍नोति । अस्‍य जालपृष्‍ठस्‍योपरि गत्‍वा विविध प्रभावचित्रेषु एकं किमपि प्रभावविकल्‍पं चित्‍वा तस्मिन् स्‍वस्‍य चित्रं स्‍थापनीयं भवति । स्‍वचित्रं संस्‍थाप्‍य पुन: जालपृष्‍ठाय दातब्‍यं भवति । निमेषाभ्‍यन्‍तरे एव जालपृष्‍ठे भवत: नूतनं चित्र उपरोक्‍तविधै: आगच्‍छति । अस्मिन् चित्रे भवत: नूतनं एव दोलनचित्रं भवति यस्मिन् भवान् सर्वथा नूतनं लगति केवलं भवत: मुखम् एव भवति वास्‍तविकम् । अन्‍यत् सर्वं परिवर्तितं भवति ।
          उपरि दत्‍तचित्रेषु एकं मम वास्‍तविकं चित्रम् अस्ति । अन्‍यत् चित्रम् अस्ति यथा अहम् दर्शनं इच्‍छामि । द्वयो: मेलनेन तृतीयं चित्रमस्ति अलौकिकमेव । अस्मिन् चित्रे मम पूर्वकायं नैव तद्वद् ।

         एवं भवान् अपि बहुविधै: स्‍वचित्रं परिवर्तितु शक्‍नोति । अस्‍तु तर्हि चलाम: तस्‍य पृष्‍ठस्‍योपरि यत्र गत्‍वा भवान् स्‍वचित्रं परिवर्तितुं शक्‍नोति नूतनविधै: ।

फोटोफुनिया.कॉम-Photofunia

टिप्पणियाँ