लघुकथा


अव्यापारेषु व्यापारं यो नरः कर्तुमिच्छति ।
स एव निधनं याति कीलोत्पाटीव वानरः ॥


कसिंमश्चिन्नगराभ्याशे केनापि वणिक्पुत्रेण तरुषण्डमध्ये देवतायतनं कर्तुमारब्धम् । तत्र च ये कर्मकाराः स्थपत्यादयस्ते मध्याह्नवेलायामाहारार्थ नगरमध्ये गच्छन्ति ।
अथ कदाचिदानुषङगिकं वानरयुथमितश्चेतश्व परिभ्रमदागतम् । तत्रैकस्य कस्यचिच्छिल्पिनोऽर्धस्फ़ाटि​तोऽर्जुनवृक्ष्यदारुमयः स्तम्भः खदिरकीलेन मध्यानिहितेन तिष्ठति । एतस्मिन्नन्तरे ते वानरास्तरुशिखरपरासादशृङ्गदारुपर्यन्तेषु यथेच्छया क्रिडितुमारब्धाः ।
एकश्व तेषां प्रत्यासन्नमृत्युश्चापल्या​त्तस्मिन्न्रर्धस्फ़ोटितस्तमुभे उपविश्य पाणिभ्यां कीलकं संगृह्य यावदुत्पाटयितुमारेभे, तावत्तस्य स्तम्भमध्यगतवृषणस्य स्वस्थानाच्चलितकीलकेन यद्वृत्तं तत्प्रागेव निवेदितम् ।


 शैलेन्द्रवर्येण प्रेषिता अस्ति एषा कथा 
तस्‍मै धन्‍यवादा: 

टिप्पणियाँ