स जयति सिन्धुरवदनो देवो यत्पादपंकजस्मरणम्
वासरमणिरिव तमसां राशीन्नाशयति विघ्नानाम् ।।1
सुमुखश्चैकदन्तश्च कपिलो गजकर्णकः
लम्बोदरश्च विकटो विघ्ननाशी: विनायकः ।।2
धूम्रकेतुर्गणाध्यक्षो भालचन्द्रो गजाननः
द्वादशैतानि नामानि यः पठेच्छृणुयादपि ।।3
विद्यारम्भे विवाहे च प्रवेशे निर्गमे तथा
संग्रामे संकटे चैव विघ्नस्तस्य न जायते ।।4
शुक्लाम्बरधरं देवं शशिवर्णं चतुर्भुजम्
प्रसन्नवदनं ध्यायेत्सर्वविघ्नोपशान्तये ।।5
व्यासं वसिष्ठनप्तारं शक्तेः पौत्रमकल्मषम्
पराशरात्मजं वन्दे शुकतातं तपोनिधिम् ।।6
व्यासाय विष्णुरूपाय व्यासरूपाय विष्णवे
नमो वै ब्रह्मनिधये वासिष्ठाय नमो नमः ।।7
अचतुर्वदनो ब्रह्मा द्विबाहुरपरो हरिः
अभाललोचनः शम्भुर्भगवान् बादरायणः ।।8
इति मंगलं सम्पूर्णम्
-->
टिप्पणियाँ
एक टिप्पणी भेजें