महात्मन: श्रीगोस्वामि तुलसीदासजन्मोत्सवे हार्दिकी शुभकामना:
अगस्त 05, 2011
प्रिय मित्राणि
महात्मा श्री तुलसिदास: अस्माकं भारतस्य रामभक्तेषु अन्यतम: इति वयं जानिम: एव ।
आनन्दकानने ह्यास्मिञ्जङ्गमस्तुलसीतरुः।
कवितामञ्जरी भाति रामभ्रमरभूषिता॥
तस्य भार्या एकदा तं भगवत: श्रीरामचरणारविन्दौ प्रति प्रेरितवती --
अस्थि चर्म मय देह यह, ता सों ऐसी प्रीति !
नेकु जो होती राम से, तो काहे भव-भीत ?
तदा आरभ्य स: आजीवनं केवलं भगवत: रामस्य कथा, गुणानुवादं चैव कृतवान् ।
तेन बहूनि काव्यानि रचितानि
तेषु रामचरितमानसम् अद्वितीयम् अस्ति
अद्यापि भारतदेशस्य बहुषु गृहेषु रामचरितमानसस्य पुस्तिका प्राप्यते एव । तस्य एव महापुरुषस्य अद्य जन्मदिवस: अस्ति । आगम्यतां तस्य कृते श्रद्धासुमनानि अर्पयाम: ।
महात्मा तुलसिदासस्य जय: भवतु
भगवत: श्रीरामस्य जय: भवतु
तुलसिदासजन्मोत्सवस्य भवतां सर्वेषां कृते हार्दिकी शुभकामना: ।।
संस्कृतजगत्
0 टिप्पणियाँ