नागपंचम्‍य: हार्दिकी शुभकामना: ।।




     अस्‍माकं भारतीयपरम्‍परायां न केवलं बहुदेववाद अस्ति अपितु वृक्षानां, पादपानां, जलानां, वनस्‍पतीनां, कीटानां च पूजा-अर्चनाया: परम्‍परा अपि अस्ति ।  वयं एतान् सर्वान् अपि भगवत: एव स्‍वरूपं मन्‍यामहे ।  अत: अस्‍माकं देशे बहुत्‍यौहारा:, उत्‍सवा: चापि सन्ति । 


       नागपंचमी अपि एवमेव एक: उत्‍सव: अस्ति यस्मिन् जना: नागदेवस्‍य पूजा-अर्चना च कुर्वन्ति ।














     अस्‍माकं देशे सर्पानाम् अपि देवरूपेण महत्‍वं विद्यते ।  भगवत: श्रीविष्‍णो: सहायक: अथ च शयनगृहं सन्ति भगवान् शेषनाग ।  तस्‍य सहस्राधिकशिराणि सन्ति ।  स: सदैव भगवत: श्रीविष्‍णो: शय्यारूपेण तिष्‍ठति ।





    भगवत: श्रीशंकरस्‍य अपि कण्‍ठाहाररूपेण एते सर्पा: एव विद्यन्‍ते ।  वयं यत्र कुत्रचित् भगवत: शिवस्‍य स्‍वरूपं पश्‍याम: सदैव तेन सह सर्पा: भवन्ति एव कण्‍ठाहार रूपेण ।  एवं वक्‍तुं शक्‍नुम: यत् तस्‍य तु एते सर्पा: एव अलंकाराणि सन्ति ।







    नागानां उत सर्पानां अस्‍माकं भारतीय परम्‍परां महत्‍वं एवं ज्ञातुं शक्‍यते यत् तेषां कृते एक: सम्‍पूर्ण- लोक: एव विद्यते नागलोक: इति । 
     एवं विधा वयं पश्‍याम: यत् अस्‍माकं भारतीय परम्‍परायां नागानां महत्‍वं न्‍यूनं नास्‍त्‍यैव अत: अद्य वयं सर्वे मिलित्‍वा एतेषां नागानां प्रति आस्‍थासमर्पणं कुर्म: । 
नागपंचम्‍य: हार्दिकी शुभकामना: 


संस्‍कृतजगत् 

टिप्पणियाँ

एक टिप्पणी भेजें