स्‍व.श्रीराम कृपाल पाण्‍डेय स्‍मारक क्रीडाप्रतियोगिताया: शुभंकरं प्रकाशितम् - Late Sir RamKripal Pandey Smarak Khel Kood Pratiyogita Logo Released


      प्रत्‍येकस्मिन् वर्षे ज्‍येष्‍ठरविवासरावसरे उत्‍तरप्रदेशस्‍य फैजाबादजनपदस्‍य ईशापुर
ग्रामे क्रीडाप्रतियोगितया सहैव लोकगीतेषु आल्‍हा पुनश्‍च रात्रौ वृहद् संकीर्तनस्‍य आयोजनं भवति ।  आयोजनस्‍य सम्‍पूर्णं दायित्‍वं ग्रामस्‍य संभ्रान्‍त: परिवार: पाण्‍डेय परिवार: वहति ।   मुख्‍यायोजक: श्रीराममुनि पाण्‍डेयवर्य: अस्ति ।  प्रत्‍येकवर्ष इव अस्मिन् वर्षे अपि ज्‍येष्‍ठरविवासरे  4 सितम्‍बर दिनांके एतत् आयोजनं भविष्‍यति इति श्रीराममुनि पाण्‍डेयवर्येण सूचितम् । 
       आयोजनस्‍य शुभंकरं सम्‍प्रति प्रकाशितम् ।  उपरिदत्‍तं चित्रं अस्य वर्षस्‍य शुभंकरस्‍य ।

     अस्मिन् वर्षे आयोजने केचन् नूतनप्रयोग: कृता: सन्ति ।  धावनक्रीडाया: क्रम: सैव भविष्‍यति ।  क्रमश: 100मी., 200मी., 400मी., 800मी. अथ च 1600मी. धावनक्रीडा उद्घोषिता अस्ति ।  एतासु क्रीडासु प्रायश: शिशव:, लघु बालका: पुनश्‍च युवान: अपि भागं गृहीतुं शक्‍क्ष्‍यन्ति ।
      धावनक्रीडया सह एव ज्‍येष्‍ठानां, कनिष्‍ठानां च कूर्दनं अपि आयोजयिष्‍यते ।  अत्रापि ये जना: भागं गृहीतुं इच्‍छन्ति ते कर्तुं शक्‍क्ष्‍यन्ति ।  आयुवर्ग: निर्धारितं भविष्‍यति ।
      अस्मिन् वर्षे कबड्डीक्रीडा न भविष्‍यति अपितु तस्‍य स्‍थाने हस्‍तकन्‍दुक (वालीबाल) क्रीडा-आयोजनं भविष्‍यति ।
      क्रीडाया: आयोजनं प्रात: 9वादनत: मध्‍याह्न 2 वादनपर्यन्‍तं भविष्‍यति ।
      2 वादनत: आल्‍हाआयोजनं करिष्‍यते ।  आल्‍हाआयोजने प्रसिद्ध: आल्‍हागायक: श्रीरामकिशोरवर्ममहोदय: आगन्‍तुं शक्‍यते यदि स्‍वास्‍थ्‍यं सम्‍यक स्‍थास्‍यति चेत् ।

      प्रायश: 4 वादने पुरस्‍कारवितरणं भविष्‍यति ।
      पुरस्‍कारवितरणानन्‍तरं पुन: आल्‍हागायनं प्रचलिष्‍यति 6वादनपर्यन्‍तम् ।
     
       6 वादनत: अतिथीनां भोजनादिकं भविष्‍यति ।   भोजनानन्‍तरं ये जना: शयनं कर्तुं इच्‍छन्‍त: भविष्‍यन्ति तेषां कृते शय्याव्‍यवस्‍था अपि भविष्‍यति ।  ये जना: भोजनानन्‍तरं रात्रिकाले वृहद् संकीर्तनायोजनं श्रोतुमिच्‍छन्‍त: भविष्‍यन्ति तेषां कृते सम्‍यकउपवेषणव्‍यवस्‍था अपि करिष्‍य‍ते । 
       वृहद् संकीर्तनस्‍य आयोजनं रात्रौ 8.30 वादने आरभ्‍यते ।  तदनन्‍तरं आरात्रि: विभिन्‍नानां गायकानां गीतानि भविष्‍यन्ति ।  गायकेषु लोकगीतगायक: लहुरी, दुखीराम, चन्‍द्रमौलि: चादय: भविष्‍यन्ति ।
       आयोजने फैजाबादस्‍य प्रसिद्धानां कवीनाम् अपि उपस्थिति: भविष्‍यति ।  कविषु मुख्‍यतया कवि श्री दयाराम तिवारी 'पुष्‍प', कवि अनिरुद्धमुनिपाण्‍डेय: 'आर्त', कवि डॉ देवीसहायपाण्‍डेय 'दीप', कवि शिवप्रसादमिश्र:, कवि ऋतुराज:, कवि आनन्‍द: आ‍दय: कवय: भवितुमर्हन्ति ।
       
         आयोजनस्‍य सूचना पूर्वमेव प्रकाशिता अस्ति  स्‍थानीय समाचारपत्रेषु ।  तथापि यदि जना: आगन्‍तुं इच्‍छन्ति किन्‍तु स्‍थानसंकेत: न जानन्ति तेषां कृते अत्र संकेत: दीयते ।

ग्राम- ईशापुर, पोस्‍ट- महबूबगंज
जिला - फैजाबाद
पिन- 224234
 

आयोजने आगन्‍तार: कृपया 3 सितम्‍बर 2011 दिनांके सायंकालपर्यन्‍तं प्राप्‍नुयु: ।  स्‍थानीयजना: 4 दिनांके अपि समये आगन्‍तुं शक्‍क्ष्‍यन्ति किन्‍तु दूरात् आगन्‍तुकामानां एकदिवसपूर्वमेव आगमनं सुविधाय ।  सर्वेषां आगतानां वासव्‍यवस्‍था उचिततया कल्पिता भविष्‍यति ।  आगमनात् पूर्वं कृपया सूचयन्‍तु येन वासभोजनादि व्‍यवस्‍था इतोपि सम्‍यक भवेत् ।

आयोजनप्रमुख: माननीय: श्री राममुनिपाण्‍डेयवर्यस्‍य भाषसंकेत: 05278 257287, चलभाषसंकेत: 09450091057 इति अस्ति ।

अधिकं ज्ञातुं टिप्‍पणीमंजूषायां लिखतु ।

संस्‍कृतजगत्

टिप्पणियाँ