एकस्मिन् दिवसे एकशतसन्‍देशा: एव ।


       दूरसंचारनियामकप्राधिकरण (ट्राई) द्वारा अद्य एक: नियम: निष्‍कासित: ।  सम्‍प्रति एकस्मिन् दिवसे एकेन भाषयन्‍त्रेण केवलम् एकशतसंदेशा: एव प्रेषयितुं शक्‍य: भविष्‍यति ।  पूर्वं भाषसमूहा: अपि प्रत्‍येकस्‍य दिवसस्‍य कृते 500 संदेशा: ददति स्‍म ।  किन्‍तु सम्‍प्रति एतस्‍य सीमानिर्धारणं कृतम् ।  100 सन्‍देशा: एव एकस्मिन् दिवसे प्रेषयितुं शक्‍य: भविष्‍यति इदानीम् ।
      अद्य आरभ्‍य एव अवांछितसंदेशानाम् अपसारणमपि क्रियान्वितम् अभवत् ।  सम्‍प्रति यदि अवांछितसंदेशै: भवान् थकित: चेत् डूनाटडिस्‍टर्ब इति सेवा सक्रिय कर्तव्‍या ।  सेवाया: प्रारम्‍भानन्‍तरं अवांछितसंदेशै:, भाषै: च मुक्ति: प्राप्‍स्‍यते ।  एषा सेवा सक्रियकर्तुं START DND इति लिखित्‍वा 1909 संख्‍याया: उपरि प्रेषणीय: ।  भवत: संख्‍याया: उपरि डूनाटडिस्‍टर्ब सुविधा सक्रिया भविष्‍यति ।  अवांछितभाषै: संदेशै: च मुक्ति: प्राप्‍स्‍यते । 

टिप्पणियाँ