गतलेखे समासस्य भेदानां विषये पठितवन्त: वयम् । सम्प्रति उपभेदानां विषये अपि पठिष्याम: ।
समासा: द्विधा
1- केवलसमास: ।
2- विशेषसमास: ।
केवलसमास: - तत्पुरुषादिसंज्ञाविनिर्मुक्त: समाससंज्ञामात्रयुक्त: केवलसमास: ।
विशेषसमास: - विशेषसमास: चतुर्धा -
अव्ययीभाव समास: - प्राय: पूर्वपदार्थप्रधान: अव्ययीभाव: ।
अव्ययीभावसमास: त्रयस्त्रिंशद्धा । किन्तु मुख्या: सन्ति द्वादशद्धा एव । एतेषामेव अत्र परिचयं दद्म: ।
समीपार्थक: अभावार्थक:
योग्यतार्थक:, वीप्सार्थक:,
पदार्थानतिवृत्यर्थक: मर्यादार्थक:
अभिविध्यर्थक: आभिमुख्यार्थक:
मात्रार्थक: अवधारणार्थक:
पारेशब्दयुक्त: मध्येशबदयुक्त:
2- तत्पुरुष समास: - प्राय: उत्तरपदार्थप्रधान: तत्पुरुष: ।
तत्पुरुष: चतुर्द्धा । एतेषां चतुर्णामपि पुन: इतोपि उपभेदा: ।
तत्पुरुष: चतुर्द्धा । एतेषां चतुर्णामपि पुन: इतोपि उपभेदा: ।
सामान्य: तत्पुरुष:
सामान्य: तत्पुरुष: सप्तधा ।
प्रथमा तत्पुरूष: द्वितीया तत्पुरूष:
तृतीया तत्पुरूष: चतुर्थी तत्पुरूष:
पंचमी तत्पुरूष: षष्ठी तत्पुरूष:
सप्तमी तत्पुरूष:
कर्मधारय: समास:
कर्मधारयसमास: अपि तत्पुरुषस्यैव एक: अन्य: भेद: । कर्मधारयसमास: नवधा ।
विशेषणपूर्वपद: विशेषणोत्तरपद:
विशेषणोभयपद: उपमानपूर्वपद:
उपमानोत्तरपद: अवधारणापूर्वपद:
सम्भावनापूर्वपद: मध्यमपदलोप:
मयूरव्यंसकादि:
द्विगु: समास:
द्विगुसमास: अपि तत्पुरुषस्यैव भेद: । एष: त्रिधा ।
समाहारद्विगु: तत्रितार्थद्विगु:
उत्तरपदद्विगु:
नंयप्रभृतय: समास: (नंय स्थाने चवर्गस्य अंतिम: वर्ण लगिष्यति किन्तु सम्भवत: देवनागर्यां नोपलब्ध: )
नंयतत्पु:षस्य पंचभेदा: सन्ति
नंयसमास: कुसमास:
गतिसमास: प्रादिसमास:
उपपदसमास:
3- बहुब्रीहि समास: - प्राय: अन्यपदार्थप्रधान: बहुब्रीहि:।
बहुब्रीहि समास:द्विधा भवति ।
बहुब्रीहि समास:द्विधा भवति ।
सामान्य: बहुब्रीहि:
सामान्य: बहुव्रीहि: षोढा भवति ।
द्वितीयार्थबहुव्रीहि: तृतीयार्थबहुव्रीहि:
चतुर्थ्यर्थबहुव्रीहि: पंचम्यर्थबहुव्रीहि:
षष्ठ्यर्थबहुव्रीहि: सप्तम्यर्थबहुव्रीहि:
विशेष: बहुब्रीहि:
विशेषबहुव्रीहि: नवधा भवति ।
व्यधिकरण: संख्योत्तरपद:
संख्योभयपद: सहपूर्वपद:
व्यतिहारलक्षण: दिगन्तराललक्षण:
नंयबहुव्रीहि: प्रादिबहुव्रीहि:
उपमानपूर्वपद:
4-द्वन्द्व समास: - प्राय: उभयपदार्थप्रधान: द्वन्द्व: ।
द्वन्द्व समास: द्विधा । एतयो: द्वयो: समासयो: पुन: भेदद्वय: क्रमश: ।
द्वन्द्व समास: द्विधा । एतयो: द्वयो: समासयो: पुन: भेदद्वय: क्रमश: ।
इतरेतर: द्वन्द्व:
इतरेतर द्वन्द्व: अपि द्विधा भवति ।
द्विपदद्वन्द्व: बहुपदद्वन्द्व:
समाहार: द्वन्द्व:
समाहारद्वन्द्व: अपि द्विधा भवति ।
समाहार: नित्यसमाहार:
एते सन्ति समासस्य भेदोपभेदा: । अग्रिमलेखे एतेषां क्रमश: एकैकं कृत्वा व्याख्याप्रयोगश्च करिष्याम: ।
तावत् नमो नम:
-: संस्कृतजगत् :-
0 टिप्पणियाँ