गूगल प्‍लस पृष्‍ठस्‍य पंजीकरणसुविधा सर्वेषां कृते उद्घटिता - Google+ opened it's sign up door for everyone ...




     मित्राणि
बहुप्रतीक्षिता गूगलप्‍लस सेवा सम्‍प्रति सर्वेषां जनानां कृते उद्घटिता अस्ति ।  गूगलप्‍लस सामाजिकपृष्‍ठं फेसबुकसामाजिकपृष्‍ठस्‍य  प्रतिद्वन्दिरूपेण गूगलअन्‍वेषणयन्‍त्रपृष्‍ठेन प्रकाशितमस्ति ।  इत: पूर्वं अस्‍य पृष्‍ठस्‍य लाभ: ते एवं स्‍वीकर्तुं शक्‍तवन्‍त: आसन् येषां कृते कस्‍यचित् आमन्‍त्रणं गच्‍छति अथवा केनचित् आमन्‍त्रणं प्राप्‍नोति ।  किन्‍तु ह्य: एव गूगलप्‍लसपृष्‍ठेन अस्‍या: सेवाया: लोकार्पणं कृतम् ।  सम्‍प्रति भवन्‍त: सर्वे अस्‍यां सेवायां पंजीकरणं कर्तुं शक्‍नुवन्ति ।

गूगलपृष्‍ठे पंजीकरणं कारयित्‍वा अस्‍या: नूतनीसुविधाया: आनन्‍दं स्‍वीकुर्वन्‍तु ।।

संस्‍कृतजगत्

टिप्पणियाँ