भैयादूज (यमद्वितीया) कथा ।

 

      भैयादूज उत्‍सव: सर्वेषां भातृणां कृते भगिनीनां प्रेमोत्‍सव: इति अस्ति ।  एतस्‍य उत्‍सवस्‍य अवसरे यमदेवस्‍य लेखाधिकारी श्रीचित्रगुप्‍तदेवस्‍य पूजार्चनं भवति ।  अस्‍य उत्‍सवस्‍य कृते एका कथा प्रचलिता अस्ति ।

      एकदा भगवान् यमराज: आत्‍मन: स्‍वसा यमुनाया: गृहं गतवान् ।  तत्र यमुना देवी तस्‍य अतिसेवा: सुश्रूषा: सम्‍पादितवती ।  यम: प्रसन्‍न: जात: वरं व़णीतुं च उक्‍तवान् ।  यमुनादेवी वरं याचितवती - भगवन । यदि भवान् प्रसन्‍न: चेत् कृपया एतत् वरं ददातु यत् अद्यतनीये दिवसे य: कश्चिदपि मम जले स्‍नानं कुर्यात् स: भवत: यमपाशे न पतेत ।  पुनश्‍च अस्मिन् दिवसे य: कश्चित् अपि आत्‍मन: स्‍वसार: गृहे गत्‍वा भोजनादिकं कुर्यात् स: अपि सर्वदा सुखी भवेत् ।

      यम: ताम् अभीष्‍टं वरं प्रदाय स्‍वलोकं प्रति गतवान् ।  तदा आरभ्‍य एष: उत्‍सव: जनै: आयोज्‍यते ।  भगिन्‍य: भ्रातृणां कृते व्रतं धारयन्ति ।  भ्रातर: भगिनीनाम् आदरं सम्‍पादयन्ति ।  द्वौ अपि मिलित्‍वा प्रत्‍येकस्‍य दीर्घजीवनस्‍य शुभकामना: च याचेते ।

टिप्पणियाँ

एक टिप्पणी भेजें