बान्धवा:
भवन्त: जानन्ति एव अस्माकं ग्रामीणसभ्यताया: सम्प्रति ह्रास: जायमान: अस्ति । जना: ग्रामीणपरम्परा: विस्मरन्त: सन्ति । न केवलं ग्रामस्य सदाचारा:, नीतय: इत्यादय: एव अपितु ग्रामीण पुरातनमधुराणि गीतानि अपि जनै: दूरं गच्छन्ति । अतएव संस्कृतजगता सम्प्रति एकम् आन्दोलनं कृतमस्ति एतेषां गीतानां संकलनम् इति ।
अस्मिन् एव क्रमे एतानि सन्ति त्रीणि चित्राणि क्रमेण प्रकाशितानि । गीतानां गायनं द्वे महिले कुर्वन्त्यौ स्त: । श्रीमति गायत्रीदेवि, श्रीमती चंदनदेवी च ।
एतानि गीतानि सन्ति स्वर्गीया श्रीमती प्राणपतीदेव्य: । सम्भवत: सा अपि एतेषां गीतानां रचनां न कृतवती आसीत् किन्तु तया एतेषां गीतानां प्रायश: गायनं कृयते स्म । अत: अत्र तानि एव गीतानि 'दादी के गीत' इति नाम्ना प्रकाश्यन्ते ।
श्रृण्वन्तु मोदयन्तु च ।
0 टिप्पणियाँ