अकबरपुरस्‍य रामलीला समाप्‍ता - Ramlila akbarpur (Ambedakar Nagar)

 

      विगतदिवसे 20/10/2011 अकबरपुरक्षेत्रस्‍य प्रसिद्धा भगवता श्रीरामचन्‍द्रस्‍य लीलायोजनं रावणवधेन सह एव समाप्‍तम् ।
      एषा लीला (मंचलीला) आहत्‍य सप्‍तदिनानि प्रचलिता ।  प्रथमदिवसात् एव भगवत: श्रीरामचन्‍द्रस्‍य विभिन्‍ना: लीला: प्रदर्शिता: ।  परह्य: अस्‍य समाप्ति: अभवत् ।
       रावणवधस्‍य अनन्‍तरं एका वृहद् मेला अपि आयोजिता अथ च रात्रौ भरतमिलाप इति प्रसंग: क्रीडित: ।  कलाकारा: सर्वे प्रतिवर्षस्‍य एव आसन् किन्‍तु रोचकता क्रीडाया: निश्‍चयेन नूतनमासीत् ।  सर्वे बहु मोदितवन्‍त: ।

भगवत: श्रीरामचन्‍द्रस्‍य कृपा सर्वेषाम् उपरि सर्वदा भवेत् ।
जय श्री राम

टिप्पणियाँ