संस्‍कृतजगतपृष्‍ठस्‍य शीर्षक: सम्‍प्रति संस्‍कृते एव ।


      मान्‍या:
सूचयाम: यत् सम्‍प्रति संस्‍कृतजगतपृष्‍ठस्‍य आंग्‍लशीर्षक: संस्‍कृतभाषायाम् एव परिवर्तित: ।  इत: पूर्वम् अस्‍य शीर्षक: अध: दत्‍तचित्रसदृशम् आसीत् ।  सम्‍प्रति यथा उपरि दत्‍तं चित्रमस्ति तथा कृतम् ।
      संस्‍कृतजगति आगच्‍छन्‍त: आगन्‍तुका: बहुवारम् अनेन विषयेन हार्दिकम् असन्‍तोषं प्रकटितवन्‍त: ।  बहुवारं बान्‍धवा: अस्‍य परिवर्तनं कर्तुं उक्‍तवन्‍त: ।  किन्‍तु तकनीकिज्ञानं नासीत् अत: अस्‍यं परिवर्तनम् इदानीं पर्यन्‍तं शक्‍यं न अभवत् ।  किन्‍तु बहुप्रयासेन सम्‍प्रति मया अस्‍य समाधानं कृतम् ।  सम्‍प्रति अन्‍य: कश्चिदपि अस्मिन् विषये असंतोषं प्रकटितुं शक्‍य: न भविष्‍यति ।
      मोदयन्‍तु भो: संस्‍कृतजगत: कार्यकर्तार: ।

भवदीय: - 
विवेकानन्‍द पाण्‍डेय: (आनन्‍द पाण्‍डेय:)
संस्‍कृतजगत् 

टिप्पणियाँ