वेदग्रन्था: अस्माकं भारतस्य एव न अपितु विश्वसाहित्यस्य प्राचीनतमा: ग्रन्था: सन्ति । सम्प्रति एतेषां ग्रन्थानां प्राचीनताया: विषये न केवलं भारतीया: मनीषिण: अपितु पाश्चात्य-मनीषिण: अपि मन्यन्ते । वेदानां विषये इत्यपि उक्तमस्ति यत् एते ग्रन्था: न केवलं हिन्दुधर्मस्य मूलम् अपितु सर्वधर्माणां मूलमेव ।
वेदोखिलो धर्ममूलम्
वेदानां महत्वगायनं कुर्वन् एक: श्लोक: प्रतिपादित: अस्ति ।
प्रत्यक्षेणानुमित्या वा यस्तूपायो न वुध्यते
एनं विदन्ति वेदेन तस्माद्वेदस्य वेदता ।।
अर्थात् यत् किमपि प्रत्यक्षे उत अनुमित्या ज्ञातुं शक्यं न भवति तेषां विषये ये ग्रन्था: वेदयन्ति ते एव वेदा: कथ्यन्ते ।
वेद शब्द: विद् धातुना सह् घंय (च वर्गस्य अन्तिम: वर्ण:) प्रत्यय योजनेन निष्पन्नो भवति ।
विद् धातो: प्रयोग: लाभे, ज्ञाने, सत्तायाम्, विचारणे च भवति । अनेन वेदस्य सामान्यार्थ: भवति तत् ज्ञानं येन धर्मार्थकाममोक्षा: इति पुरुषार्थचतुष्टया: ज्ञायन्ते, लभन्ते, विचारयन्ति च ते एव वेदा: ।
विदन्ति विन्दते लभते धर्मादिपुरुषार्थान् अनेन इति वेद:
वेदानां विषये आचार्य सायण: लिखति - ''अपौरुषेयं वाक्यं वेद:'' अथवा ''इष्टप्राप्त्यनिष्टपरिहारयो: अलौकिकमुपायं यो ग्रन्थो वेदयति स वेद:'' । महर्षि दयानन्द: वेदं परिभाषयन् लिखति - ''विदन्ति-जानन्ति, विद्यन्ते-भवन्ति, विदन्ते सर्वा: सत्य-विद्या यै: यत्र वा स वेद:'' ।
वेदा: चत्वार:
ऋग्वेद: यजुर्वेद:
सामवेद: अथर्ववेद: च
एतेषां व्याख्या अग्रे कुर्म: ।
संस्कृतजगत्
बहुत बेहतरीन और प्रशंसनीय.......
जवाब देंहटाएंमेरे ब्लॉग पर आपका स्वागत है।
सुन्दर..वेदस्य..मूल अर्थ, भावना व तथ्य प्रस्तुति..... प्रशंसनीय...
जवाब देंहटाएं