गणतन्‍त्रदिवसस्‍य हार्दिकी शुभकामना:


26 january, Republic Day 26 जनवरी 1950 इति अस्मिन् दिवसे एव अस्‍माकं भारतस्‍य गणतन्‍त्रं पूर्णरूपेण क्रियान्वितम् अभवत् ।  गणतन्‍त्रस्‍य पूर्णक्रियान्‍वयनं इत्‍यस्‍यार्थ: पूर्णस्‍वतन्‍त्रता ।  तत: पूर्वं स्‍वतन्‍त्रताया: उद्घोषणा तु आसीत् किन्‍तु शासनकार्यस्‍य चालका: अस्‍माकं भारतीया: न अपितु वैदेशिका: एव आसन् ।  केवलं नाम आसीत् अस्‍माकं स्‍वतन्‍त्रताया: ।  अस्‍माकं संविधानमपि नासीत् ।  26 जनवरी 1950 इति दिवसे एव अस्‍माकं संविधानं पूर्णरूपेण कार्ये आगतम् ।  तदारभ्‍य वयं पूर्णरूपेण स्‍वतन्‍त्रा: अभवाम ।
बहव: क्रान्तिकारिण: अस्यैव दिवसस्‍य कृते आत्‍मन: रक्‍तं जलवद् पातितवन्‍त: ।  किन्‍तु तेषु केषुचित् एव अस्‍माकं मध्‍ये अवशिष्‍टा: अभवन् राष्‍ट्रस्‍य स्‍वतन्‍त्रतावसरे ।  तेषां बलिदानिनां योगदानं तु अविस्‍मरणीयमेव ।  धन्‍या: ते महापुरुषा: ये आत्‍मोत्‍सर्गं कृत्‍वा अस्‍माकं जीवनं स्‍वतन्‍त्रं कृतवन्‍त: ।  ते एव सदर्थेषु भारतस्‍य भगवन्‍त: ।
तेषां कृते अस्‍माकं सर्वेषां नमनम्


जय हिन्‍द

टिप्पणियाँ

एक टिप्पणी भेजें