अटल बिहारी वाजपेयी

अटल बिहारी वाजपेयी


भारतस्‍य एकादशतम: प्रधानमंत्री

(प्रथम शासनकाल:) कार्यकाल:

१६ मई १९९६१ जून १९९६

पूर्ववर्ती - पी. वी. नरसिंह राव:

परवर्ती - ऍच. डी. देवगौड़ा


(द्वितीय शासनकाल:) कार्यकाल:

१९ मार्च १९९८२२ मई २००४

पूर्ववर्ती - इन्द्र कुमार गुजराल:

परवर्ती - मनमोहन सिंह:


जन्म - २५ दिसंबर १९२४

ग्वालियर, मध्य प्रदेश

राजनैतिकसंघ: - भारतीय जनता पार्टी

अटल बिहारी वाजपेयी (जन्म २५ दिसंबर, १९२४) भारतस्‍य पूर्व प्रधानमन्‍त्री अस्ति ।  स: भारतीय जनसंघस्‍य स्‍थापकेषु: एक: अस्ति एवं च १९६८ त: १९७३ पर्यन्‍तं तस्‍य अध्‍यक्ष: अपि आसीत् ।  स: जीवनपर्यन्‍तं (यावच्‍छक्‍यं) भारतीयराजनीते संक्रिय: आसीत् ।  स: दीर्घकालपर्यन्‍तं राष्‍ट्रधर्म:, पांचजन्‍यं, वीरअर्जुन: च राष्ट्रियभावोत्‍प्रोतपत्र-पत्रिकाणां सम्‍पादनम् अपि अकरोत् ।  एतदरिक्‍तं स: एक: ओजस्‍वी वाक्‍पटु: च प्रसिद्ध हिन्‍दीकवि: आसीत् ।  स: जीवनपर्यन्‍तम् अविवाहितम् अपि आसीत् ।


आरम्भिकजीवनम्

उत्‍तरप्रदेशस्‍य आगराजनपदस्‍य एकस्‍य प्राचीनस्‍थानस्‍य बटेश्‍वरस्‍य मूलनिवासी पण्डित कृष्‍णबिहारी वाजपेयी, मध्‍यप्रदेशस्‍य ग्‍वालियशासने (रियासत) अध्‍यापनकार्यं कुर्वन्‍नासीत् ।  तत्रैव 'शिन्दे की छावनी' इति स्‍थाने २५ दिसम्बर, १९२४ दिवसे ब्राह्ममुहूर्ते तस्‍य सहधर्मिणी कृष्णा वाजपेयी एकं बालकं अजनत् ।  कृष्‍णबिहारी अध्‍यापनकार्यस्‍य अतिरिक्‍तम् अपि हिन्‍दीब्रजभाषयो: सिद्धहस्‍तकवि: अपि आसीत् ।  महात्मा रामचन्द्र वीर द्वारा रचिता अमर कृति: "विजय पताका" पठित्‍वा अटलस्‍य जीवनं नूतनी दिशा प्राप्‍तम् ।  अटलस्‍य स्‍नातकशिक्षा ग्‍वालियरप्रान्‍तस्‍य विक्‍टोरिया कालेज (वर्तमान लक्ष्‍मीबाई कॉलेज) मध्‍ये अभवत् ।  क्षात्रजीवने एव स: राष्ट्रियस्वयंसेवकसंघस्‍य सदस्‍तां स्‍वीकृतवान् ।  कानपुरे डी.ए.वी. कालेजत: राजनीतिशास्‍त्रे परास्‍नातकस्‍य परीक्षा प्रथमश्रेण्‍याम् उत्‍तीर्णवान् ।  पित्रा सहैव कानपुरे एल.एल.बी. शिक्षा प्रारभ्‍य मध्‍ये एव विरम्‍य संघस्‍य कार्ये निष्‍ठापूर्वकं निरत: अभवत् ।  डॉ० श्यामा प्रसाद मुखर्जी पण्डित दीनदयाल उपाध्यायस्‍य च निर्देशने राजनीते: अध्‍ययनं तु कृतमेव, सहैव पाञ्चजन्यं, राष्ट्रधर्म:, दैनिक स्वदेश: वीर अर्जुन: आदय: पत्र-पत्रिका: अपि कुशलतापूर्वकं संपादितवान् ।


राजनीतिक जीवनम्

भारतीयसंघस्‍य स्‍थापकेषु सोपि अन्‍यतम: तस्‍य सन् १९६८ त: १९७३ पर्यन्‍तं अध्‍यक्ष: अपि आसीत् ।  सन् १९५५ मध्‍ये स: प्रथमवारं लोकसभाचयने आगतवान्, चयने पराजयं प्राप्‍य अपि धैर्यं न त्‍यक्‍तवान् ।  सन् १९५७ मध्‍ये बलरामपुर (जिला गोण्डा, उत्तर प्रदेश) त: जनसंघस्‍य प्रत्‍याशीरूपेण विजयं प्राप्‍य लोकसभायां प्रवेश: प्राप्‍तवान् ।  सन् १९५७ त: १९७७ पर्यन्‍तं जनता पार्टी इत्‍यस्‍य स्‍थापनापर्यन्‍तं विंशति: वर्षपर्यन्‍तं जनसंघस्‍य संसदीय: नेता आसीत् ।  सन् १९६८ त: ७३ पर्यन्‍तं भारतीयजनसंघस्‍य राष्ट्रियअध्‍यक्ष: अपि आसीत् ।  मोरारजी देसाई महोदयस्‍य सर्वकारे स: सन् १९७७ त: १९७९ पर्यन्‍तं विदेशमन्‍त्री अपि आसीत् अनेन विदेशे अपि भारतस्‍य छवि: वर्धितम् ।

१९८० ईसवीये जनतापार्टीसमूहात् असंतोषं प्राप्‍य जनतासंघं परित्‍यज्‍य भारतीयजनतापार्टी इत्‍यस्‍य नूतनस्‍य संघस्‍य स्‍थापनायां सहयोगं प्रदत्‍तवान् ।  ६ अप्रैल, १९८० दिवसे जनतापार्टी इति संघ: निर्मित: तस्‍य अध्‍यक्षपदस्‍य दायित्‍वम् अपि अनेन एव स्‍वीकृतम् ।  द्विवारं राज्‍यसभाया: कृते निर्वाचनं प्राप्‍तवान् ।  वाजपेयिना सन् १९९७ मध्‍ये प्रधानमन्‍त्रीरूपेण देशस्‍य शासनं स्‍वीकृत: ।  १९ अप्रैल, १९९८ दिवसे प्रधानमन्‍त्रीपदस्‍य शपथं गृहीतवान् ।  तस्‍य नेतृत्‍वे १३ दलानां गठबंधनसर्वकार: पंचवर्षेभ्‍य: देशस्‍य अन्‍ते प्रगते: विविधानि कार्याणि कृतानि ।

सन् २००४ मध्‍ये कार्यकालस्‍य समापने सति भीषणे घर्मे सम्‍पन्‍ने लोकसभाचयने भा.ज.पा. इत्‍यस्‍य नेतृत्‍वे राष्ट्रियलोकतान्त्रिकगठबन्‍धनस्‍य (एन.डी.ए) विजयं तु नैवावभवत् ।  तदनन्‍तरं वाजपेयिना सन्‍यासं गृहीतम् ।


कवि: अटलबिहारी

मेरी इक्यावन कविताएं इति अटलबिहारीवाजपेयिमहोदस्‍य प्रसिद्ध: काव्‍यसंग्रह: अस्ति ।  तस्‍य सर्वप्रथमं काव्‍यं ताजमहल इति आसीत् । 

तस्‍य काश्चित् प्रकाशितरचना:

  • मृत्यु या हत्या
  • अमर बलिदान (लोकसभायां अटलवर्यस्‍य वक्‍तव्‍यानां संग्रह:)
  • कैदी कविराय की कुण्डलियाँ
  • संसद में तीन दशक
  • अमर आग है
  • कुछ लेख: कुछ भाषण
  • सेक्युलर वाद
  • राजनीति की रपटीली राहें
  • बिन्दु बिन्दु विचार, इत्यादि।


जीवनस्‍य प्रमुखतत्वानि

  • देशहिताय यत्किमपि आसीत् तत् सर्वं अटलविहारिणा कृतम् 
  • आजीवनं अविवाहितम् आसीत् । 
  • तेजस्‍वीवक्‍ता, वाक्‍पटु: , विशिष्‍ट: कवि: चासीत् हिन्‍दी भाषाया: ।
  • परमाणुशक्तिसम्‍पन्‍नदेशानां विरोधेन विचलितं सन विनापि अग्नि-द्वितीयस्‍य एवं च परमाणुपरीक्षणं कृत्‍वा सन् १९९८ मध्‍ये राजस्थानस्‍य पोखरणस्‍थाने द्वितीयपरमाणुपरीक्षणं चापि सम्‍पादितवान् एवं च अमेरिकाया: ज्ञाने अपि नैव आगतम‍् इति ।
  • अटल: दीर्घसमयपर्यन्‍तं सांसद आसीत् , जवाहरलालनेहरू एवं च इंदिरागांधी इत्‍ययो: अनन्‍तरं सर्वाधिकं अधिकसमयपर्यन्‍तं गैरकांग्रेसीअधिकारी आसीत् य: न केवलं गठबन्‍धनसर्वकारं सफलतापूर्वकं स्‍थापितवान् अपितु संचालितवानपि ।
  • अटल: एव प्रथमविदेशमन्‍त्री य: संयुक्‍तराष्‍ट्रे हिन्‍दीभाषायां भाषणं दत्‍तवान् ।
  • तस्‍य जीवने नैवासीत कश्चिदपि विरोधाभास: ।

 

शतवर्षेभ्‍य: अपि अधिकस्‍य पुरातनस्‍य कावेरीजलविवादं शोधितवान् ।  संरचनात्‍मकं कार्यदलं, साफ्टवेयरविकासाय सूचनाप्रौद्योगिकीकार्यदलं, केन्द्रियविद्युतनियन्‍त्रणआयोग इत्‍यादयस्‍य गठनं, राष्ट्रियराजमार्गानां, वायुस्‍थानकानां च निर्माणं, नूतनटेलिकामनीते: कोंकणरेलवेइत्‍यस्‍य च प्रारम्‍भ:, राष्ट्रियसुरक्षासमिते:, आर्थिकसलाहसमिते:, व्‍यापारोद्योगसमिते: च गठनं कृतम् ।  महर्गं (महगाई) नियन्त्रितवान् ।  ग्रामीणरोजगारयोजना: संचालितवान् च ।

इतोपि बहूनि कार्याणि सन्ति तेन कृतानि ।  अतएव स: आरम्‍भात् अद्य पर्यन्‍तं भारतस्‍य सर्वलोकप्रिय: प्रधानमन्त्री इति कथ्‍यते ।


टीका टिप्पणी
  • भारत को लेकर मेरी एक दृष्टि है- ऐसा भारत जो भूख और डर से, निरक्षरता और अभाव से मुक्त हो- अटल बिहारी वाजपेयी

टिप्पणियाँ