ऐतिहासिक दृष्ट्या एषा शाखा वेदव्यासेन तस्य शिष्यं वैशम्पायनं प्राप्तमासीत् । वैशम्पायनस्यैव अपरं नाम चरकाचार्य: आसीत् । अनया एव परम्परया तस्य शिष्या: अपि चरका: एव उक्ता: यथाहि श्रीमद्भागवते (12.6.61) उक्तमस्ति - 'वैशम्पायनशिष्या वै चरकाध्वर्यवोभवन्' । एतेषाम् अन्तेवासिनां संख्या 9 आसीत् । तेषां नामानि क्रमश: - आलम्बि, कालिंग (महाभाष्ये पलंग इति नाम अस्ति), कमल, ऋचाभ:, आरुणि:, ताण्ड्य, श्यामायन, कठ एवं च कलापी इति सन्ति । एतेषु पातंजलमहाभाष्यानुसारं प्रथम-त्रय: प्राच्यदेशवर्तिन:, मध्यवर्तिन: त्रय: उदीच्यभागात् अन्तिम: त्रय: च मध्यभागात् सन्ति । अनेन एव यजुर्वेदस्य सप्तविंशति: शाखानां विस्तार: जात: ।
सम्प्रति यजुर्वेदस्य द्वे शाखे स्त: - कृष्णयजुर्वेद: शुक्लयजुर्वेद: च । एतेषाम् अपि अनेका: अवान्तरशाखा: सन्ति । कृष्णयजुर्वेद: ब्रह्मसम्प्रदायान्तर्गतम् अस्ति एवं च शुक्लयजुर्वेद: आदित्यसम्प्रदायान्तर्गतम् अस्ति । एतेषां शुक्लत्वस्य कृष्णत्वस्य च कारणम् एतत् अस्ति यत् शुक्लयजुर्वेदे केवलं मन्त्रभाग: अस्ति यद्यपि कृष्णयजुर्वेदे मन्त्रै: सह अपि ब्राह्मणभाग: अपि अस्ति ।
एतेषाम् अनुसारम् एका कथा अस्ति अस्मिन् विषये - तदनुसारं कदाचित् एकवारं वैशम्पायन: स्वशिष्येन याज्ञवल्क्येन रुष्ट: जात: । स: आत्मना दत्तसमस्तविद्या प्रतिप्राप्तुम् आदिष्टवान् । याज्ञवल्क्य: वमनक्रियया सर्वा: विद्या: निष्काषितवान् । वैशम्पायनस्य सर्वे शिष्या: तित्तिररूपं स्वीकृत्य तां वेदविद्यां स्वीकृतवन्त: । तदारभ्य एव एषा शाखा कृष्णयजुर्वेद: इति अभवत् । याज्ञवल्क्य: भगवत: सूर्यस्य आराधनं कृत्वा शुक्लयजुर्वेदं प्राप्तवान् इति ।
शुक्लयजुर्वेदस्य द्वे शाखे स्त: - माध्यन्दिन संहिता, काण्व संहिता च ।
कृष्णयजुर्वेदस्य चतस्र: शाखा: सन्ति - तैत्तिरीय संहिता, मैत्रायणी संहिता, काठक संहिता, कपिष्ठल संहिता च ।
0 टिप्पणियाँ