श्लिश्टपदै: (अनेकार्थयुक्तपदै:) अनेकानाम् अर्थानां प्रतिपादनं भवति यत्र तत्र श्लेषअलंकार: भवति ।
'श्लिष्टै: पदैरनेकार्थाभिधाने श्लेष इष्यते' ।
प्रायेण दृश्यते यत् बहूनाम् अर्थानां प्रतिपादनाय बहव: शब्दा: प्रयुज्ज्यते, किन्तु यत्र एकेन शब्देन एव एकाधिकार्थ: प्राप्यते तत्र श्लेष अलंकार: भवति ।
श्लेष शब्द: अर्थवाची 'श्लिष्' धातुना (ष्लिष् आलिंगने) 'घयं' प्रत्ययं योज्य निष्पन्नो भवति । श्लेषस्य अर्थ: 'चिपकना' इति भवति ।
आचार्य विश्वनाथेन श्लेषस्य 'वर्ण, प्रत्यय, लिंग, प्रकृति, पद, विभक्ति, वचन एवं च भाषा' इति षड् भेदा: भवन्ति । -
''वर्णप्रत्ययलिंगानां प्रकृत्यो: पदयोरपि ।
श्लेषाद् विभक्तिवचनभाषाणामष्टधा च स: ।।''
अन्ये आचार्या: श्लेषालंकारं 'शब्दश्लेष' 'अर्थश्लेष' भेदयो: द्विधा भवति ।
उदाहरणम् -
पृथुकार्तस्वरपात्रं भूषितनि:शेषपरिजनं देव ।
विल्सत्करेणुगहनं सम्प्रति सममावयो: सदनम् ।।
अत्र अस्य श्लोकस्य द्विधा अर्थ: अस्ति । एक: भिक्षुक: एकस्य राज्ञ: पुरत: तस्य प्रशंसां कुर्वन् आत्मन: स्थितिं वदति । राज्ञ: पक्षे अस्यार्थ: अस्ति - 'भो राजा । भवत: प्रासाद: दीर्घ:, स्वर्णजटित: चास्ति । भवत: गृहे करिण: अपि मोदयन्ते ।' भिक्षुकस्य पक्षे अस्यार्थ: अस्ति - 'मम गृहे रेणु: प्रसृता अस्ति । अस्माकं बान्धवा: भूमौ शयनं कुर्वन्ति । बालका: भोजनाय रोदनं कुर्वन्ति इति ।' सम्प्रति भवत: मम च दशा सदृशमेव अस्ति । इति
अत: अत्र श्लेष अलंकार: अस्ति ।
कैश्चित् आचार्यै: श्लेषस्य पुन: अपि त्रिधा भेदा: कृता: सन्ति । एते भेदा: सन्ति -
1. सभंग श्लेष
2. अभंग श्लेष
3. सभंगाभंग श्लेष
इति
टिप्पणियाँ
एक टिप्पणी भेजें