शब्‍दालंकार: - यमक अलंकार:

Yamak alankar 

   2. यमक अलंकार: - यस्मिन् काव्‍ये भिन्‍न-भिन्‍नअर्थप्रतिपादकशब्‍दानां एकाधिकवारम् आवृत्ति: भवति तत्र यमक अलंकार: भवति ।

सत्‍यर्थे पृथगर्थाया: स्‍वरव्‍यंजनसंहते: ।

क्रमेण तेनैवावृत्तिर्यमकं विनिगद्यते ।।

एते शब्‍दा: क्वचित् सार्थका: क्वचित् निरर्थका: अपि भवितुमर्हन्ति ।  किन्‍तु तेषां क्रमेण आवृत्ति: आवश्‍यकं भवति ।  क्रमेण आवृत्तिअभावे सति यमकं विहाय अनुप्रास अलंकार: भवति ।

उदाहरणम् -

नवपलाश-पलाशवनं पुर: स्‍फुटपरागपरागतपंकजम् ।

मृदुलतान्‍तलतान्‍तमलोकयत् स सुरभिं-सुरभिं सुमनोभरै: ।।

अत: क्रमश: 'पलाश' (पलाशपुष्‍पं/पत्रं), 'पराग' (पुष्‍पपराग/निरर्थकं), 'लतान्‍त' (निरर्थकं/लताया: अन्तिमभाग:) एवं च 'सुरभि' (सुगन्धि:/वसन्‍तऋतु:) शब्‍दानां एकाधिकवारं आवृत्ति: अस्ति ।  अस्मिन् उदाहरणे त्रयाणां भेदानाम् उदाहरणम् अपि प्रदत्‍तमस्ति ।

'यमक' शब्‍दस्‍य व्‍युत्‍पत्ति: कुर्वन् काव्‍यप्रकाश-नागेश्‍वरी-टीकायाम् उक्‍तमस्ति -

यमौ द्वौ समजातौ, तत्‍प्रतिकृतिर्यमकम्

इवे प्रतिकृताविति (पा.सू. 5.3.96) कन् ।।

अर्थात् 'यम- शब्‍दस्‍यार्थ: युगलम् इति ।  आचार्य पाणिनि: यम शब्‍देन सह समान प्रतिकृति अर्थे 'कन्' प्रत्‍ययस्‍य प्रयोगं कृतवान् अस्ति ।

काव्‍यप्रकाशस्‍य दर्पणटीकायाम् आचार्यविश्‍वनाथेन 'यमकस्‍य' व्‍याख्‍या कृता अस्ति -

'स्‍थानविशेषेषु यम्‍यते इति यमकम् '' ।

वाग्‍भटालंकारस्‍य अन्‍वयार्थप्रबोधिनीटीकायाम् -

'भिन्‍नवाच्‍यानां पादपदवर्णानां संयुतासंयुता आवृत्ति: आदिमध्‍यान्‍तगोचरं यमकं स्‍यात्' ।

केशवमिश्रेण अलंकारशेखरे -

'अतुल्‍यार्थत्वे सति आनुपूर्वीविशेषविशिष्‍टनियतव्‍यंजनसमुदायाभ्‍यासो यमकम् ' ।

प्रायेण सर्वेपि एकमेव तात्‍पर्यं विभिन्‍नप्रकारेण स्‍थापितवन्‍त: सन्ति ।

यमक अलंकारस्‍य भेदा: -

यमक अलंकारस्‍य त्रय: भेदा: आचार्य‍ विश्‍वनाथेन स्‍वीकृत: अस्ति ।

1. उभयपद सार्थकम्

2. उभयपदनिरर्थकम्

3. क्‍वचित् एकं सार्थकम् अन्‍यं निरर्थकम् ।

इति

टिप्पणियाँ

एक टिप्पणी भेजें