काश्‍चन् विशेषता: राकमेल्ट जालसंचालकस्‍य

एतत् चित्रं संवर्ध्‍य सर्वा: सूचना: द्रष्‍टुं शक्‍यमस्ति




      राकमेल्‍ट जालसंचालक: (RockMelt Web Browser) अत्‍यधिकं रोमांचकरम् आनन्‍ददायकं चास्ति ।  अद्य प्रथमवारं मया अस्‍य प्रयोग: कृत: एवं च प्रथमे एव अहम् अस्‍य वशीभूत: अभवम् ।  भवतां सम्‍मुखे अस्‍य कस्‍याश्चित् विशेषता: प्रस्‍तुतोमि ।  यथा चित्रे दत्‍तमस्ति -
1- सर्वतो उपरि भवत: फेसबुकसूचनामंजूषावत् (Facebook Notification Box) एव एका मंजूषा (Box) स्‍थाप्‍यते ।  एषा मंजूषा भवत: फेसबुकपृष्‍ठस्‍य सर्वा: सूचना: विनापृष्‍ठोद्घाटने एव प्रददाति ।
2- वामभागे अनुप्रयोगसूची (Application List) भवति ।  अत्र भवान् बहुविधानाम् अनुप्रयोगानां प्रयोगं प्राप्‍नोति ।
3- सर्वतो दक्षिणभागे चैटजनानां सूची प्रदर्श्‍यते । अत्र के सक्रिया: (Online) सन्ति के निष्क्रिया: (Offline) च इत्‍यपि प्रदर्श्‍यते ।
4- सर्वतो उ‍परि दक्षिणभागे आवंटनपिंज: (Share Button) अस्ति । सरलतया आवंटयितुम् ।
5- तस्‍य साक्षात् दक्षिणत: पिंज: (Button) अस्ति सर्वेषां सुविधानां विलोपनाय (Hide) ।
6- कस्मिश्चिदपि पृष्‍ठे सति साक्षात् चैट कर्तुं शक्‍यमस्ति अनेन ।
इतोपि बहुगुणानि सन्ति ।  भवन्‍त: स्‍वयमेव प्रयोज्‍य पश्‍यन्‍तु ।
अध: दत्‍तश्रृंखलायां नोदनं कृत्वा तलपूरय‍तु ।


टिप्पणियाँ