एक: नूतन: जालसंचालक: भवतां सेवायाम्





      बान्‍धवा:
         वर्षेभ्‍य: भवन्‍त: गूगलक्रोम, फायरफाक्‍स, सफारी प्रभृतीनां विविधानां जालसंचालकानां (Web Browsers) प्रयोगं कृत्‍वा थकिता: स्‍यु: ।  सम्‍प्रति भवन्‍त: अपि किमपि नूतनं वांछन्‍त: स्‍यु: ।  चेत् भवतां कृते निश्‍चयेन प्रसन्‍नताया: विषय: ।  जालजगति सम्‍प्रति एकं नूतनं जालचालकम् आगतमस्ति ।  रॉकमेल्‍ट (RockMelt Web Browser) इति ।  अस्‍य सम्‍प्रति मयापि प्रयोग: तु नैव कृत: किन्‍तु अद्य अहम् एतस्‍य स्थापनं (Installation) कुर्वन्‍नस्मि स्‍व अंककयन्‍त्रे (Laptop) ।  अद्य आरभ्‍य अस्‍य एव प्रयोगं करिष्‍यामि कस्‍मैचित् दिनाय ।  यदि अस्‍य प्रयोग: सम्‍यक् लगिष्‍यति चेत् अग्रे सर्वं विहाय अस्‍यैव प्रयोगं कुर्म: ।
            भवन्‍त: अपि निश्‍चयेन एतस्‍य तलपूर्ति: (Download) इच्‍छन्‍त: स्‍यु: ।  चेत् भवतां कृते मया अस्‍य श्रृंखला (Link) अध: दीयते ।  साक्षात् नोदनं (Click) कृत्‍वा तलपूरयन्‍तु ।



टिप्पणियाँ