अर्थालंकार: - भ्रान्तिमान अलंकार:


समता अथवा सादृश्‍यकारणात् कस्मिश्चित् वस्‍तौ अन्‍यवस्‍तो: वर्णनं भ्रान्तिमान् अलंकार: कथ्‍यते ।
साम्यादतस्मिनस्‍तद्बुद्धिर्भ्रान्तिमान् प्रतिभोत्थित: ।
अर्थात् यत्र समानता कारणात् कस्मिश्चित् वस्‍तौ कविकल्‍पनया कस्‍यचित् अन्‍यस्‍य वस्‍तो: निश्‍चयात्‍मकं ज्ञानं भवति तत्र भ्रान्तिमान् अलंकार: भवति ।
उदाहरणम् -
मुग्धा दुग्‍धधिया गवां विदधते कुम्‍भानधो बल्‍लवा: ।
कर्णे कैरवशंकया कुवलयं कुर्वन्ति कान्‍ता अपि ।।
कर्कन्‍धुफलमुच्चिनोति शबरी मुक्‍ताफलाशंकया ।
सान्‍द्रा चन्‍द्रमसो न कस्‍य कुरूते चित्‍तभ्रमं चन्द्रिका ।।
प्रस्‍तुतोदाहरणे चन्‍द्रमस: मयूखे दुग्‍धस्‍य, कुवलये कुमुदस्‍य एवं च कर्कन्‍धुफले मुक्‍ताफलस्‍य कविकल्‍पनया भ्रान्तिपूर्णं वर्णनं कृतमस्ति अ‍त: अत्र भ्रान्तिमान् अलंकार: अस्ति ।
इति ....

टिप्पणियाँ