जालसूचिकानिर्माणं, लेखप्रकाशनं च कथं कुर्यात् ?


गतलेखुषु ईसंकेतस्‍य निर्माणादिकविषयेषु पठितवन्‍त: वयम् ।  सम्‍प्रति वयं कथं जालसूचिका: निर्मापयेम, कथं तत्र प्रकाशनं च लेखानां कुर्याम इति एतस्मिन् विषये ज्ञास्‍याम: ।
जालसूचिकानिर्माणं कथम् - सर्वप्रथमं तु आत्‍मन: र्इसंकेतपृष्‍ठम् उद्घाटयेत् ।  अनेन जालसूचिकानिर्माणे सहायतां प्राप्‍यते ।  ईसंकेतपृष्‍ठस्‍य उद्घाटनानन्‍तरं निम्‍नोक्‍तकार्याणि करणीयानि भविष्‍यन्ति क्रमश: ।
 how to make a new blogger blog
1- यथा चित्रे दर्शितमस्ति तद्वदेव संकेतमंजूषायां 'ब्‍लागर.काम' इति संकेतं पूरयित्‍वा प्रवेश (इण्‍टर) पिंजं नोदयेत् ।  अनेन नूतनं पृष्‍ठं उद्घट्यते ।  यथा चित्रे दर्शितमस्ति - यदि भवत: पार्श्‍वे एका जालसूचिका पूर्वमेव अस्ति चेत् सामान्‍यतया सूचिकाम् उद्घाटयतु प्रयोक्‍तानाम एवं च गुप्‍तशब्‍दं प्रयोज्‍य ।  किन्‍तु यदि भवत: पार्श्‍वे इदानीं पर्यन्‍तम् एकापि सूचिका नास्ति चेत् सर्वतो उपरि दक्षिणभागे साइनअप इति नाम्‍ना श्रृखलां नोदयेत् ।  एषा श्रृंखला एकं नूतनं आवेदनपत्रम् उद्घाटयति, यत् पूरयित्‍वा सूचिकानियन्‍त्रणपटलं (ब्‍लाग कन्‍ट्रोल पैनल) निर्माप्‍यते ।
sign up for blogger
2- चित्रे प्रदत्‍तसूचना: यथा पूरिता: सन्ति तद्वदेव सूचना: पूरयन्‍तु ।  प्रथमविकल्‍पे ईसंकेत:, द्वितीये विकल्‍पे आत्‍मन: नाम, तृतीये विकल्‍पे सूचिकानियन्‍त्रणपटलस्‍य नाम च पूरणीयम् ।
चतुर्थे विकल्‍पे सामान्‍यतया स्‍वीकृतिचिन्‍हं योजयेत् ।  पंचमे विकल्‍पे आत्‍मन: लिंगविषये एवं च षष्‍ठे विकल्‍पे सामान्‍यतया पुन: स्‍वीकृतिचिन्‍हं योजनीयम् ।  एतदनन्‍तरं कान्टिन्‍यू इति श्रृंखलायां नोदनीयम् ।  एषा श्रृंखला अस्‍मान् अस्‍माकं नूतने सूचिकानियन्‍त्रणपटले नयति । 
skip google  page

अस्मिन् पृष्‍ठे विकल्‍पद्वयमागच्‍छति ।  एकं विकल्‍पं तु भवति गूगलप्‍लसपृष्‍ठे आवेदनं कारयितुं ।  एष: विकल्‍प: त्‍यक्‍तब्‍य: ।  यतोहि भवतां पार्श्‍वे पूर्वमेव फेसबुक इति सामाजिकपृष्‍ठमस्‍ति अत: अनेन नूतनसामाजिकपृष्‍ठेन नास्ति कश्चिदपि लाभ: ।  द्वितीय: विकल्‍प: अस्ति न्‍यू ब्‍लाग इति ।  एष: विकल्‍प: नोदनीय: ।
get started with a new blog

नोदनानन्‍तरं साक्षात् एकं पृष्‍ठम् उद्घटति ।  अत्र भवता केवलं सूचिकाया: वांछितनाम, पुनश्‍च एक: वांछितसंकेत: दातव्‍य: भवति ।  सूचिकासंकेत: (संस्‍कृतजगत्.ब्‍लागस्‍पाट.इन) इति भवता सदैव संरक्षणीय: ।
अध: प्रदत्‍तचित्रेषु एकं चित्रं चयनीयं भवति ।  एतत् चित्रमेव भवत: सूचिकाया: भित्तिचित्रमिति भवति ।
चित्रचयनानन्‍तरं क्रियेट ब्‍लाग इति विकल्‍पे नोदनीय: ।  भवत: सूचिका सम्‍प्रति सज्जिता ।
get started posting on new blog

सम्‍प्रति भवान् आत्‍मन: सूचिकानियन्‍त्रणपटले गत्‍वा विविधविकल्‍पेषु किमपि चित्‍वा कार्यमारब्‍धुं शक्‍नोति ।  चित्रे एकत्र लेखनी इति चित्रं दृश्‍यते ।  तदस्ति नूतनलेखं लेखितुम् ।  तत्र नोदयित्‍वा भवान् प्रथमसूचिकालेख: लेखितुं शक्‍नोति ।

write a new post

एतत् चित्रं वृहदीकृत्‍वा पश्‍यन्‍तु ।  अत्र सर्वतो उपरि रिक्‍तस्‍थाने भवत: लेखशीर्षक: भविष्‍यति ।  द्वितीयदीर्घमंजूषायां भवत: लेख: भविष्‍यति ।  लेखस्‍य वर्णाकार:, वर्णं, इत्‍यादिकं परिवर्तितुं अन्‍य: विकल्‍प: अपि सूचित: अस्ति चित्रे ।  'अ' इति विकल्‍पे नोदयित्‍वा साक्षात् हिन्‍दीभाषायां लेखितुं शक्नुवन्ति ।  एवं च लेखस्‍य विषयवस्‍तुरपि योजयितुं शक्‍नुवन्ति ।  लेखनानन्‍तरं उपरि पब्लिश इति विकल्‍पे नोदयित्‍वा लेखं प्रकाशनीयमिति ।  लेखस्‍य प्रकाशनानन्‍तरं व्‍यू ब्‍लाग इति विकल्‍पं नोदयित्‍वा लेख: द्रष्‍टुमपि शक्‍य: भवति ।
your blog is ready

भवत: सूचिका सज्जिता ।  एवं विधा दृष्‍यते भवत: सूचिका ।  अत्र सर्वतो उपरि भवत: सूचिकाया: नाम, तत: अध: लेखशीर्षक:, लेखसंक्षेप:, केनलिखित:, कदालिखित:, कति टिप्पणय: इत्‍यादिषु विषये सूचना: भवन्ति ।  लेखे किमपि परिवर्तनं कर्तुं साक्षात् नियन्‍त्रणपटलं प्रति गन्‍तुं शक्‍यन्‍ते ।
control panel of the blogger

नियन्‍त्रणपटले बहव: विकल्‍पा: सन्ति ।  तत्र बहुविधिकार्याणि साधितुं शक्‍यानि सन्ति ।
अस्‍तु तर्हि एवं विधा जालसूचिका (ब्‍लाग) इति निर्मापितुं शक्‍यते इति ।  यदि अस्मिन् विषये भवतां काचिदपि जिज्ञासास्ति चेत् कृपया अत्र टिप्‍पणीमंजूषायां लिखन्‍तु ।  वयं अस्‍माकं सर्वतो श्रेष्‍ठप्रयासं कुर्म: भवतां समस्‍याया: समाधानं कर्तुम् इति ।

टिप्पणियाँ