अथेतरे सप्त रघुप्रवीरा ज्येष्ठं पुरोजन्मतया जुणैश्च ।
चक्रुः कुशं रत्नविशेषभाजं सौभ्रात्रं एषां हि कुलानुसारि । । १६.१ । ।
ते सेतुवार्त्तागजबन्धमुख्यैरभ्युच्छ्रिताः कर्मभिरप्यवन्ध्यैः ।
अन्योन्यदेशप्रविभागसीमां वेलां समुद्रा इव न व्यतीयुः । । १६.२ । ।
चतुर्भुजांशप्रभवः स तेषां दानप्रवृत्तेरनुपारतानां ।
सुरद्विपानां इव सामयोनिर्भिन्नोऽष्ठदा विप्रससार वंशः । । १६.३ । ।
अथार्धरात्रे स्तिमितप्रदीपे शय्यागृहे सुप्तजने प्रबुद्धः ।
कुशः प्रवासस्थकलत्रवेषां अदृष्टपूर्वां वनितां अपश्यथ् । । १६.४ । ।
सा साधुसाधारणपार्थिवर्द्धेः स्थित्वा पुरस्तात्पुरुहूतभासः ।
जेतुः परेषां जयशब्दपूर्वं तस्याञ्जलिं बन्धुमतो बबन्ध । । १६.५ । ।
अथानुपोढार्गलं अप्यगारं छायां इवादर्शतलं प्रविष्टां ।
सविस्मयो दाशरथेस्तनूजः प्रोवाच पूर्वार्धविषृटतल्पः । । १६.६ । ।
लभ्दान्तरा सावरणेऽपि गेहे योगप्रभावो न च लक्ष्यते ते ।
बिभर्षि चाकारं अनिर्वृतानां मृणालिनी हैमं इवोपरागं । । १६.७ । ।
का त्वं शुभे कस्य परिग्रहो वा किं वा मदभ्यागमकारणं ते ।
आचक्ष्व मत्वा वशिनां रघूणां मनः परस्त्रीविमुखप्रवृत्ति । । १६.८ । ।
तं अब्रवीत्सा गुरुणा नवद्या या नीतपौरा स्वपदोन्मुखेन ।
तस्याः पुरः संप्रति वीतनाथां जानीहि राजन्नधिदेवतां मां । । १६.९ । ।
वसौकसारां अभिभूय साहं सौराज्यबद्धोत्सवया विभूत्या ।
समग्रशक्तौ त्वयि सूर्यवंष्ये सति प्रपन्ना करुणां अवस्थां । । १६.१० । ।
विशीर्णतल्पाट्टशतो निवेशः पर्यस्तशालः प्रभुणा विना मे ।
विडम्बयत्यस्तनिमग्नसूर्यं दिनान्तं उग्रानिलभिन्नमेघं । । १६.११ । ।
निशासु भास्वत्कलनूपुराणां यः संचरोऽभूदभिसारिकाणां ।
नदन्मुखोल्काविचितामिषाभिः स वाह्यते राजपथः शिवाभिः । । १६.१२ । ।
आस्फालितं यत्प्रमदाकराग्रैर्मृदङ्गधीरध्वनिं अन्वगच्छथ् ।
वन्यैरिदानीं महिषैस्तदम्भः शृङ्गाहतं क्रोशति दीर्घिकाणां । । १६.१३ । ।
चित्रद्विपाः पद्मवनावतीर्णाः करेणुभिर्दत्तमृणालभङ्गाः ।
नखाङ्कुशाघातविभिन्नकुम्भाः संरब्धसिंहप्रहृतं वहन्ति । । १६.१६ । ।
स्तम्भेषु योषित्प्रतियातनानां उत्क्रान्तवर्णक्रमधूसराणां ।
स्तनोत्तरीयाणि भवन्ति सङ्गान्निर्मोकपट्टाः फणिभिर्विमुक्ताः । । १६.१७ । ।
कालान्तरश्यामसुधेषु नक्तं इतस्ततो रूढतृणाङ्कुरेषु ।
त एव मुक्तागुणशुद्धयोऽपि हर्म्येषु मूर्छन्ति न चन्द्रपादाः । । १६.१८ । ।
आवर्ज्य शाखाः सदयं च यासां पुष्पाण्युपात्तानि विलासिनीभिः ।
वन्यैः पुलिन्दैरिव वानरैस्ताः क्लिश्यन्त उद्यानलता मदीयाः । । १६.१९ । ।
रात्रावनाविष्कृतदीपभासः कान्तामुखश्रीवियुता दिवापि ।
तिरस्क्रियन्ते कृमितन्तुजालैर्विच्छिन्नधूमप्रसरा गवाक्षाः । । १६.२० । ।
बलिक्रियावर्जितसैकतानि स्नानीयसंसर्गं अनापनुवन्ति ।
उपान्तवानीरगृहाणि दृष्ट्वा शून्यानि दूये सरयूजलानि । । १६.२१ । ।
तदर्हसीमां वसतिं विसृज्य मां अभ्युपैतुं कुलराजधानीं ।
हित्वा तनुं कारणमानुषीं तां यथा गुरुस्ते परमात्ममूर्तिं । । १६.२२ । ।
तथेति तस्याः प्रणयं प्रतीतः प्रत्यग्रहीत्प्राग्रहरो रघूणां ।
पूरप्यभिव्यक्तमुखप्रसादा शरीरबन्धेन तिरोबभूव । । १६.२३ । ।
तदद्भुतं संसदि रार्त्रिवृत्तं प्रातर्द्विजेभ्यो नृपतिः शशंस ।
श्रुत्वा त एनं कुलराजधान्या साक्षात्पतित्वे वृतं अभयनन्दन् । । १६.२४ । ।
कुशावतीं श्रोत्रियसात्स कृत्वा यात्रानुकूलेऽहनि सावरोधः ।
अनुद्रुतो वायुरिवाभ्रवृन्दैः सैन्यैरयोध्याभिमुखः प्रतस्थे । । १६.२५ । ।
सा केतुमालोपवना बृहद्भिर्विहारशैलानुगतेव नागैः ।
सेना रथोदारगृहा प्रयाणे तस्याभवज्जङ्गमराजधानी । । १६.२६ । ।
तेनातपत्रामलमण्डलेन प्रस्थापितः पूर्वनिवासभूमिं ।
बभौ बलौघः शशिनोदितेन वेलां उदन्वानिव नीयमानः । । १६.२७ । ।
तस्य प्रयातस्य वरूथिनीनां पीडां अपर्याप्तवतीव सोढुं ।
वसुंधरा विष्णुपदं द्वितीयं अध्यारुरोहेव रजश्छलेन । । १६.२८ । ।
उद्यच्छमाना गमनाय पश्चात्पुरो निवेशे पथि च व्रजन्ती ।
सा यत्र सेना ददृषे नृपस्य तत्रैव सामग्र्यमतिं चकार । । १६.२९ । ।
तस्य द्विपानां मदवारिसेकात्खुराभिघाताच्च तुरंगमाणां ।
रेणुः प्रपेदे पथि पङ्कभावं पङ्कोऽपि रेणुत्वं इयाय नेतुः । । १६.३० । ।
मार्गैषिणी सा कटकान्तरेषु वैन्ध्येषु सेना बहुधा विभिन्ना ।
चकार रेवेव महाविरावा बद्धप्रतिश्रुन्ति गुहामुखानि । । १६.३१ । ।
स धातुभेदारुणयाननेमिः प्रभुः प्रयाणध्वनिमिश्रतूर्यः ।
व्यलङ्घयद्विन्ध्यं उपायनानि पश्यन्पुलिन्दैरुपपादितानि । । १६.३२ । ।
तीर्थे तदीये गजसेतुबन्धात्प्रतीपगां उत्तरतोऽस्य गङ्गां ।
अयत्नवालग्व्यजनीबभूवुर्हंसा नभोलङ्घनलोलक्पक्षाः । । १६.३३ । ।
स पूर्वजानां कपिलेन रोषाद्भस्मावशेषीकृतविग्रहाणां ।
सुरालयप्राप्तिनिमित्तं अम्भस्त्रैस्रोतसं नौलुलितं ववन्दे । । १६.३४ । ।
इत्यध्वनः कैश्चिदहोभिरन्ते कूलं समासाद्य कुशः सरय्वाः ।
वेदिप्रतिष्ठान्वितताध्वराणां यूपानपश्यच्छतशो रघूणां । । १६.३५ । ।
आधूय शाखाः कुसुमद्रुमाणां स्पृष्ट्वा च शीतान्सरयूतरङ्गान् ।
तं क्लान्तसैन्यं कुलराजधान्याः प्रत्युज्जगामोपवनान्तवायुः । । १६.३६ । ।
अथोपशल्ये रिपुमग्नशल्यस्तस्याः पुरः पौर्सखः स राजा ।
कुलध्वजस्तानि चलध्वजानि निवेशयां आस बली बलानि । । १६.३७ । ।
तां शिल्पिसंघाः प्रभुणा नियुक्तास्तथागतां संभृतसाधनत्वाथ् ।
पुरं नवीचक्रुरपां विसर्गान्मेघा निदाघग्लपितां इवोर्वीं । । १६.३८ । ।
ततः सपर्यां सपशूपहारां पुरः परार्ध्यप्रतिमागृहायाः ।
उपोषितैर्वास्तुविधानविद्भिर्निर्वर्तयां आस रघुपवीरः । । १६.३९ । ।
तस्याः स राजोपपदं निशान्तं कामीव कान्ताहृदयं प्रविश्य ।
यथार्हं अन्यैरनुजीविलोकं संभावयां आस गृहैस्तदीयैः । । १६.४० । ।
सा मन्दुरासंश्रयिभिस्तुरंगैः शालाविधिस्तम्भगतैश्च नागैः ।
पूराबभासे विपणिस्थपण्या सर्वाङ्गनद्धाभरणेव नारी । । १६.४१ । ।
वसन्स तस्यां वसतौ रघूणां पुराणशोभां अधिरोपितायां ।
न मैथिलेयः स्पृहयां बभूव भर्त्रे दिवो नाप्यलकेश्वराय । । १६.४२ । ।
अथास्य रत्नग्रथितोत्तरीयं एकान्तपाण्डुस्तनलम्बिहारं ।
निःश्वासहार्यांशुकं आजगाम घर्मः प्रिया वेषं इवोपदेष्टुं । । १६.४३ । ।
अगस्त्यचिह्नादयनात्समीपं दिगुत्तरा भास्वति संनिवृत्ते ।
आनन्दशीतं इव भाष्पवृष्टिं हिमस्रुतिं हैमवतीं ससर्ज । । १६.४४ । ।
प्रवृद्धतापो दिवसोऽतिमात्रं अत्यर्थं एव क्षणदा च तन्वी ।
उभौ विरोधक्रियया विभिन्नौ जायापती सानुशयाविवास्तां । । १६.४५ । ।
दिने दिने शैवलवन्त्यधस्तात्सोपानपर्वाणि विमुञ्चदम्भः ।
उद्दण्डपद्मं गृहदीर्घिकाणां नारीनितम्बद्वयसं बभूव । । १६.४६ । ।
वनेषु सायनतनमल्लिकानां विजृम्भणोद्गन्धिषु कुड्मलेषु ।
प्रत्येकनिक्षिप्तपदः सशब्दं संख्यां इवैषां भ्रमरश्चकार । । १६.४७ । ।
स्वेदानुविद्धार्द्रनखक्षताङ्के संदष्टभूयिष्ठशिखं कपोले ।
च्युतं न कर्णादपि कामिनीनां शिरीषपुष्पं सहसा पपात । । १६.४८ । ।
यन्त्रप्रवाहैः शिशिरैः परीतान्रसेन धौतान्मलयोद्भवस्य ।
शिलाविशेषानधिशय्य निन्युर्धारागृहेष्वातपं ऋद्धिमन्तः । । १६.४९ । ।
स्नानार्द्रमुक्तेष्वनुधूपवासं विन्यस्तसायन्तनमल्लिकेषु ।
कामो वसन्तात्ययमन्दवीर्यः केशेषु लेभे बलं अङ्गनानां । । १६.५० । ।
आपिञ्जरा बद्धरजःकणत्वान्मञ्जर्युदाराशुशुभेऽर्जुनस्य ।
दग्ध्वापि देहं गिरिशेन रोषात्खण्डीकृता ज्येव मनोभ्वस्य । । १६.५१ । ।
मनोज्ञगन्धं सहकारभङ्गं पुराणसीधुं नवपाटलं च ।
संबध्नता काइजनेषु दोषाः सर्वे निदाघावधिना प्रमृष्टाः । । १६.५२ । ।
जनस्य तस्मिन्समये विगाढे बभूवतुर्द्वौ सविशेषकान्तौ ।
तापापनोदक्षमपाद स चोदयस्थो नृपतिः शशी च । । १६.५३ । ।
अथोर्मिलोलोन्मदराजहंसे रोधोलतापुष्पवहे सरय्वाः ।
विहर्तुं इच्छा वनितासखस्य तस्याम्भसि ग्रीष्मसुखे बभूव । । १६.५४ । ।
स तीरभूमौ विहितोपकार्यां आनायिभिस्तां अपकृष्टनक्रां ।
विगाहितुं श्रीमहिमानुरूपं प्रचक्रमे चक्रधरप्रभावः । । १६.५५ । ।
सा तीरसोपानपथावतारादन्योन्यकेयूरविघट्टिनीभिः ।
सनूपुरक्षोभपदाभिरासीदुद्विग्नहंसा सरिदङ्गनाभिः । । १६.५६ । ।
परस्पराभ्युक्षणतत्पराणां तासां नृपो मज्जनरागदर्शी ।
नौसंश्रयः पार्श्वगतां किरातीं उपात्तवालव्यजनां बभाषे । । १६.५७ । ।
पश्यावरोधैः शतशो मदीयैर्विगाह्यमानो गलिताङ्गरागैः ।
संध्योदयः साभ्र इवैष वर्णं पुष्यत्यनेकं सरयूप्रवाहः । । १६.५८ । ।
विलुप्तं अन्तःपुरसुन्दरीणां यदञ्जनं नौलुलिताभिरद्भिः ।
तद्बध्नतीभिर्मदरागशोभां विलोचनेषु प्रतिमुक्तं आसां । । १६.५९ । ।
एता गुरुश्रोणिपयोधरत्वादात्मानं उद्वोहुढुं अशक्नुवन्त्यः ।
गाढाङ्गदैर्बाहुभिरस्पु बालाः क्लेशोत्तरं रागवशात्प्लवन्ते । । १६.६० । ।
अमी शिरीषप्रसवावतंसाः प्रभ्रंशिनो वारिविहारिणीनां ।
पारिप्लवाः स्रोतसि निम्नगायाः शैवाललोलांश्छलयन्ति मीनान् । । १६.६१ । ।
आसां जलास्फालनतत्पराणां मुक्ताफलस्पर्धिषु शीकरेषु ।
पयोधरोत्सर्पिषु शीर्यमाणाः संलक्ष्यते न च्छिदुरोऽपि हारः । । १६.६२ । ।
आवर्तशोभा नतनाभिकान्तेर्भङ्ग्यो भ्रुवां द्वन्द्वचराःस्तनानां ।
जातानि रूपावयवोपमानान्यदूरवर्तीनि विलासिनीनां । । १६.६३ । ।
तीरस्थलीबर्हिभिरुत्कलापैः प्रस्निग्धकेकैरभिनन्द्यमानं ।
श्रोत्रेषु संमूर्छति रक्तं आसां गीतानुगं वारिमृदङ्गवाद्यं । । १६.६४ । ।
संदष्टवस्त्रेष्वबलानितम्बेष्विन्दुप्रकाशान्तरितोडुकल्पाः ।
अमी जलापूरितसूत्रमार्गा मौनं भजन्ते रशनाकलापाः । । १६.६५ । ।
एताः करोत्पीडितवारिधारा दर्पात्सखीभिर्वदनेषु सिक्ताः ।
वक्रेतराग्रैरलकैस्तरुण्यश्चूर्णारुणान्वारिलवान्वमन्ति । । १६.६६ । ।
उद्बद्धकेशश्च्युतपत्त्ररेखो विश्लेषिमुक्ताफलपत्त्रवेष्टः ।
मनोज्ञ एव प्रमदामुखानां अम्भोविहाराकुलितोऽपि वेषः । । १६.६७ । ।
स नौविमानादवतीर्य रेमे विलोलहारः सह ताभिरप्सु ।
स्कन्धावलग्नोद्धृतपद्मिनीकः करेणुभिर्वन्य इव द्विपेन्द्रः । । १६.६८ । ।
ततो नृपेनानुगताः स्त्रियस्ता भ्राजिष्णुना सातिशयं विरेजुः ।
प्रागेव मुक्ता नयनाभिरामाः प्राप्येन्द्रनीलं किं उतोन्मयूखं । । १६.६९ । ।
वर्णोदकैः काञ्चनशृङ्गमुक्तैस्तं आयताक्ष्यः प्रणयादसिञ्चन् ।
तथागतः सोऽतिररां बभासे सधातुनिस्यन्द इवाद्रिराजः । । १६.७० । ।
तेनावरोधप्रमदासखेन विगाहनानेन सरिद्वरां तां ।
आकाशगङ्गारतिरप्सरोभिर्वृतो मरुत्वाननुयातलीलः । । १६.७१ । ।
यत्कुम्भयोनेरदिगम्य रामः कुशाय राज्येन समं दिदेश ।
तदस्य जैत्राभरणं विहर्तुरज्ञातपातं सलिले ममज्ज । । १६.७२ । ।
स्नात्वा यथाकामं असौ सदारस्तीरोपकार्यां गतमात्र एव ।
दिव्येन शून्यं वलयेन बाहुं उपोढनेपथ्यविधिर्ददर्श । । १६.७३ । ।
जयश्रियः संवननं यतस्तदामुक्तपूर्वं गुरुणा च यस्माथ् ।
सेहेऽस्य न भ्रंशं अतो न लोभात्स तुल्यपुष्पाभरणो हि धीरः । । १६.७४ । ।
ततः समाज्ञापयदाशु सर्वानानायिनस्तद्विचये नदीष्णान् ।
वन्ध्यश्रमास्ते सरयूं विगाह्य तं ऊचुराम्लानमुखप्रसादाः । । १६.७५ । ।
कृतः प्रयत्नो न च देव लब्धं मग्नं पयस्याभरणोत्तमं ते ।
नागेन लौल्यात्कुमुदेन नूनं उपात्तं अन्तर्ह्रदवासिना तथ् । । १६.७६ । ।
ततः स कृत्वा धनुराततज्यं धनुर्धरः कोपविलोहिताक्षः ।
गारुत्मतं तीरगतस्तरस्वी भुजंगनाशाय समाददेऽस्त्रं । । १६.७७ । ।
तस्मिन्ह्रदः संहितमात्र एव क्षोभात्समाविद्धतरङ्गहस्तः ।
रोधांस्यभिघ्नन्नवपातमग्नः करीव वन्यः परुषं ररास । । १६.७८ । ।
तस्मात्समुद्रादिव मथ्यमानादुद्वृत्तनक्रात्सहसोन्ममज्ज ।
लक्ष्म्येव सार्धं सुरराजवृक्षः कन्यां पुरस्कृत्य भुजंगराजः । । १६.७९ । ।
विभूषणप्रत्युपहारहस्तं उपस्थितं वीक्ष्य विशांपतिस्तं ।
सौपर्णं अस्त्रं प्रतिसंजहार प्रहेष्वनिर्बन्धरुषो हि सन्तः । । १६.८० । ।
त्रैलोक्यनाथप्रभवं प्रभावात्कुशं द्विषां अङ्कुशं अस्त्रविद्वान् ।
मानोनन्तेनाप्यभिवन्द्य मूर्ध्ना मूर्धाभिषिक्तं कुमुदो बभाषे । । १६.८१ । ।
अवैमि कार्यान्तरमानुषस्य विष्णोः सुताख्यां अपरां तनुं त्वां ।
सोऽहं कथं नाम तवाचरेयं आराधनीयस्य धृतेर्विभातं । । १६.८२ । ।
कराभिघातोत्थितकन्दुकेयं आलोक्य बालातिकुतूहलेन ।
जवात्पतज्ज्योतिरिवान्तरिक्षादादत्त जत्राभरणं त्वदीयं । । १६.८३ । ।
तदेतदाजानुविलम्बिना ते ज्याघातरेखाकिण लाञ्छनेन ।
भुजेन रक्षापरिघेण भूमेरुपैतु योगं पुनरंसलेन । । १६.८४ । ।
इमां स्वसारं च यवीयसीं मे कुमुद्वतीं नार्हसि नानुमन्तुं ।
आत्मापराधं नुदतीं चिराय शुश्रूषया पार्थिव पादयोस्ते । । १६.८५ । ।
इत्यूचिवानुपहृताभरणः क्षितीशं श्लाघ्यो भवान्स्वजन इत्यनुभाषितारं ।
संयोजयां विधिवदास समेतबन्धुः कन्यामयेन कुमुदः कुलभूषणेन । । १६.८६ । ।
तस्याः स्पृष्टे मनुजपतिना साहचर्याय हस्ते माङ्गल्योर्णावलयिनि पुरः पावकस्योच्छिखस्य ।
दिव्यस्तूर्यध्वनिरुदचरद्व्यश्नुवानो दिगन्तान्गन्धोदग्रं तदनौ ववृषुः पुष्पं आश्चर्यमेघाः । । १६.८७ । ।
इत्थं नागस्त्रिभुवनगुरोरौरसं मैथिलेयं लब्ध्वा बन्धुं तं अपि च कुशः पञ्चमं तक्षकस्य ।
एकः शङ्कां पितृवधरिपोरत्यजद्वैनतेयाच्छान्तव्यालां अवनिं अपरः पौरकान्तः शशास । । १६.८८ । ।
इति कालिदासविरचिते रघुवंशे षोडषः सर्गः
0 टिप्पणियाँ