कालिदासविरचिते रघुवंशे त्रयोदशः सर्गः



अथामनः शब्दगुणं गुणज्ञः पदं विमानेन विगाहमानः ।
रत्नाकरं वीक्ष्य मिथः स जायां रामाभिधानो हरिरित्युवाच । । १३.१ । ।
वैदेहि पश्य्ऽ आ मलयाद्विभक्तं मत्सेतुना फेनिलं अम्बुराशिं ।
छायापथेनेव शरत्प्रसन्नं आकाशं आविष्कृतचारुतारं । । १३.२ । ।
गुरोर्यियक्षोः कपिलेन मेध्ये रसातलं संक्रमिते तुरंगे ।
तदर्थं उर्वीं अवदारयद्भिः पूर्वैः किलायं परिवर्धितो नः । । १३.३ । ।
गर्भं दधत्यर्कमरीचयोऽस्माद्विवृद्धिं अत्राश्नुवते वसूनि ।
अबिन्धनं वह्निं असौ बिभर्ति प्रह्लादनं ज्योतिरजन्यनेन । । १३.४ । ।
तां तां अवस्थां प्रतिपद्यमानं स्थितं दश व्याप्य दिशो महिम्ना ।
विष्णोरिवास्यानवधारणीयं ईदृक्तया रूपं इयत्तया वा । । १३.५ । ।
नाभिप्ररूढाम्बुरुहासनेन संस्तूयमानः प्रथमेन धात्रा ।
अमुं युगान्तोचितयोगन्दिरः संहृत्य लोकान्पुरुषोऽधिशेते । । १३.६ । ।
पक्षच्छिदा गोत्रभिदात्तगन्धाः शरण्यं एनं शतशो महीध्राः ।
नृपा इवोपप्लविनः परेभ्यो धर्मोत्तरं मध्यमं आश्रयन्ते । । १३.७ । ।
रसातलादादिभवेन पुंसा भुवः प्रयुक्तोद्वहनक्रियायाः ।
अस्याच्छं अम्भः प्रलयप्रवृद्धं मुहूर्तवक्त्रावरणं बभूव । । १३.८ । ।
मुखार्पणेषु प्रकृतिप्रगल्भाः स्वयं तरङ्गाधरदानदक्षः ।
अनन्यसामान्यकलत्रवृत्तिः पिबत्यसौ पाययते च सिन्धूः । । १३.९ । ।
ससत्त्वं आदाय नदीमुखाम्भः संमीलयन्तो विवृताननत्वाथ् ।
अमी शिरोभिस्तिमयः सरन्ध्रैरूर्ध्वं वितन्वन्ति जलप्रवाहान् । । १३.१० । ।
मातङ्गनक्रैः सहसोत्पतद्भिर्भिन्नान्द्विधा पश्य समुद्रफेनान् ।
कपोलसंसर्पितया य एषां व्रजन्ति कर्ण क्षणचामरत्वं । । १३.११ । ।
वेलानिलाय प्रसृता भुजंगा महोर्मिविस्फूर्जथुनिर्विशेषाः ।
सूर्यांशुसंपर्कसमृद्धरागैर्व्यज्यन्त एते मणिभिः फणस्थैः । । १३.१२ । ।
तवाधरस्परधिषु विद्रुमेषु पर्यस्तं एतत्सहसोर्मिवेगाथ् ।
ऊर्ध्वाङ्कुरप्रोतमुखं कथंचित्क्लेशदपक्रामति शङ्खयूथं । । १३.१३ । ।
प्रवृत्तमात्रेण पयांसि पातुं आवर्तवेगाद्भ्रमता घनेन ।
आभाति भूयिष्ठं अयं समुद्रः प्रमथ्यमानो गिरिणेव भूयः । । १३.१४ । ।
दूरादयश्चक्रनिभस्य तन्वी तमालतालीवनराजिनीला ।
आभाति वेला लवणाम्बुराशेर्धारानिबद्धेव कलङ्कलेखा । । १३.१५ । ।
वेलानिलः केतकरेणुभिस्ते संभावयत्याननं आयताक्षि ।
मां अक्षमं मण्डनकालहानेर्वेत्तीव बिम्बाधरबद्धतृष्णं । । १३.१६ । ।
एते वयं सैकतभिन्नशुक्तिपर्यस्तमुक्तापटलं पयोधेः ।
प्राप्ता मुहूर्तेन विमानवेगात्कूलं फलावर्जितपूगमालं । । १३.१७ । ।
कुरुष्व तावत्करभोरु पश्चान्मार्गे मृगप्रेक्षिणि दृष्तिपातं ।
एषा विदूरीभवतः समुद्रात्सकानना निष्पततीव भूमिः । । १३.१८ । ।
क्वचित्पथा संचरते सुराणां क्वचिद्घनानां पततां क्वचिच्च ।
यथाविधो मे मन्सोऽभिलाषः प्रवर्तते पश्य तथा विमानं । । १३.१९ । ।
असौ महेन्द्रद्विपदानगन्धी त्रिमार्गगावीचिविमर्दशीतः ।
आकाशवायुर्दिनयौवनोत्थानाचामति स्वेदलवान्मुखे ते । । १३.२० । ।
करेण वातायनलम्बितेन स्पृष्टस्त्वया चण्डि कुतूहलिन्या ।
आमुञ्चतीवाभरणं द्वितीयं उद्भिन्नविद्युद्वलयो घनस्ते । । १३.२१ । ।
अमी जनस्थानं अपोढविघ्नं मत्वा समारब्धनवोटजानि ।
अध्यासते चीरभृतो यथास्वं चिरोज्झितान्याश्रममण्डलानि । । १३.२२ । ।
सैषा स्थली यत्र विचिन्वता त्वां भ्रष्टं मया नूपुरं एकं उर्व्यां ।
अदृश्यत त्वच्चरणारविन्दविश्लेषदुःखादिव बद्धमौनं । । १३.२३ । ।
त्वं रक्षसा भीरु यतोऽपनीता तं मार्गं एताः कृपया लता मे ।
अदर्शयन्वक्तुं अशक्नुवत्यः शाखाभिरावर्जितपल्लवाभिः । । १३.२४ । ।
मृग्यश्च दर्भाङ्कुरनिर्व्यपेक्षास्तवागतिज्ञं समबोधयन्मां ।
व्यापारयन्त्यो दिशि दक्षिणस्यां उत्पक्ष्मराजीनि विलोचनानि । । १३.२५ । ।
एतद्गिरेर्मालयवतः पुरस्तादाविर्भवत्यम्बर्लेखि शृङ्गं ।
नवं यत्र घनैर्मया च त्वद्विप्रयोगाश्रु समं विसृष्टं । । १३.२६ । ।
गन्धश्च धाराहतपल्वलानां कादम्बं अर्धोद्गतकेसरं च ।
स्निग्धाश्च केकाः शिखिनां बभूवुर्यस्मिनसह्यानि विना त्वया मे । । १३.२७ । ।
पूर्वानुभूतं स्मरता च यत्र कम्पोत्तरं भीरु तवोपगूढं ।
गुहाविसारीण्यतिवाहितानि मया कथंचिद्घनगर्जितानि । । १३.२८ । ।
आसारसिक्तक्षितिबाष्पयोगान्मां अक्षिणोद्यत्र विभिन्नकोशैः ।
विडम्ब्यमाना नवकन्दलैस्ते विवाहधूमारुणलोचनश्रीः । । १३.२९ । ।
उपान्तवानीरवनोपगूधान्यालक्ष्यपारिप्लवसारसानि ।
दूरावतीर्णा पिबतीव खेदादमूनि पम्पासलिलानि दृष्टिः । । १३.३० । ।
अत्रावियुक्तानि रथाङ्गनाम्नां अन्योन्यदत्तोत्पलकेसराणि ।
द्वन्द्वानि दूरान्तरवर्तिना ते मया प्रिये सस्पृहं ईक्षितानि । । १३.३१ । ।
इमां तताशोकलतां च तन्वीं स्तनाभिरामस्तबकाभिनम्रां ।
त्वत्प्राप्तिबुद्ध्या परिरिप्समानः स्ॐइत्रिणा सास्रं अहं निषिद्धः । । १३.३२ । ।
अमूर्विमानान्तरलम्बिनीनां श्रुत्वा स्वनं काञ्चनकिङ्किणीनां ।
प्रत्युद्व्रजन्तीव खं उत्पतन्त्यो गोदावरीसारसपङ्क्तयस्त्वां । । १३.३३ । ।
एषा त्वया पेशलमध्ययापि घटाम्बुसंवर्धितबालचूता ।
आह्लादयत्युन्मुखकृष्णसारा दृष्ट चिरात्पञ्चवटी मनो मे । । १३.३४ । ।
अत्रानुगोदं मृगयानिवृत्तस्तरङ्गवातेम विनीतखेदः ।
रहस्त्वदुत्सङ्गनिषण्णमूर्धा स्मरामि वानीरगृहेषु सुप्तः । । १३.३५ । ।
भ्रूभेद मात्रेण पदान्मघोनः प्रभ्रंशयां यो नहुषं चकार ।
तस्याविलाम्भःपरिशुद्धिहेतोर्भ्ॐओ मुनेः स्थानपरिग्रहोऽयं । । १३.३६ । ।
त्रेताग्निधूमाग्रं अनिन्द्यकीर्तेस्तस्येदं आक्रान्तविमानमार्गं ।
घ्रात्वा हविर्गन्धि रजोविमुक्तः समश्नुते मे लघिमानं आत्मा । । १३.३७ । ।
एतन्मुनेर्मानिनि शातकर्णेः पञ्चाप्सरो नाम विहारवारि ।
आभाति पर्यन्तवनं विदूरान्मेघान्तरालक्ष्यं इवेन्दुबिम्बं । । १३.३८ । ।
पुरा स दर्भाङ्कुरमात्रवृत्तिश्चरन्मृगैः सार्धं ऋषिर्मघोना ।
समाधिभीतेन किलोपनीतः पञ्चाप्सरोयौवनकूटभन्धं । । १३.३९ । ।
तस्यायं अन्तर्हितसौधभाजः प्रसक्तसंगीतमृदङ्गघोषः ।
वियद्गतः पुष्पकचन्द्रशालाः क्षणं प्रतिष्रुन्मुखराः करोति । । १३.४० । ।
हविर्भुजां एधवतां चतुर्णां मध्ये ललाटंतपसप्तसप्तिः ।
असौ तपस्यत्यपरस्तपस्वी नाम्ना सुतीक्ष्णश्चरितेन दान्तः । । १३.४१ । ।
अमुं सहासप्रहितेक्षणानि व्याजार्धसंदर्शितमेखलानि ।
नालं विकर्तुं जनितेन्द्रशङ्कं सुराङ्गनाविभ्रमचेष्टितानि । । १३.४२ । ।
एषोऽक्षमालावलयं मृगाणां कण्डूयितारं कुशसूचिलावं ।
सभाजने मे भुजं ऊर्ध्वबाहुः सव्येतरं प्राध्वं इतः प्रयुङ्क्ते । । १३.४३ । ।
वाचंयमत्वात्प्रणतिं ममैष कम्पेन किंचित्प्रतिगृह्य मूर्ध्नः ।
दृष्टिं विमानव्यवधानमुक्तां पुनः सहस्राचिषि संनिधत्ते । । १३.४४ । ।
अदः शरण्यं शरभङ्गनाम्नस्तपोवनं पावनं आहिताग्नेः ।
चिराय संतर्प्य समिधिरग्निं यो मन्त्रपूतां तनुं अप्यहौषीथ् । । १३.४५ । ।
छायाविनीताध्वपरिश्रमेषु भूयिष्ठसंभाव्यफलेष्वमीषु ।
तस्यातिथीनां अधुना सपर्या स्थिता सुपुत्रेष्विव पादपेषु । । १३.४६ । ।
धारास्वनोद्गारिदरीमुखोऽसौ शृङ्गाग्रलग्नाम्बुदवप्रपङ्कः ।
बध्नाति मे बन्धुरगात्रि चक्षुर्दृप्तः ककुद्मानिव चित्रकूटः । । १३.४७ । ।
एषा प्रसन्नस्तिमितप्रवाहा सरिद्विदूरान्तरभावतन्वी ।
मन्दाकिनी भाति नगोपकण्ठे मुक्तावली कण्ठगतेव भूमेः । । १३.४८ । ।
अयं सुजातोऽनुगिरं तमालः प्रवालं आदाय सुगन्धि यस्य ।
कर्णार्पितेन्ऽ ठाकरवं कपोलं अपार्थ्यकालागुरुपत्त्रलेखं Vथ् । । १३.४९ । ।
अनिग्रहत्रासविनीतसत्त्वं अपुष्पलिङ्गात्फलबन्धिवृक्षं ।
वनं तपःसाधनं एतदत्रेराविष्कृतोदग्रतरप्रभावं । । १३.५० । ।
अत्राभिषेकाय तपोधनानां सप्तर्शिहस्तोद्धृतहेमपद्मां ।
प्रवर्तयां आस किल्ऽ आनुसूया त्रिस्रोतसं त्र्यम्बकमौलिमालां । । १३.५१ । ।
वीरासनैर्ध्यानजुषां ऋषीनां अमी समाध्यासितवेदिमध्याः ।
निवातनिष्कम्पतया विभान्ति योगाधिरूढा इव शाखिनोऽपि । । १३.५२ । ।
त्वया पुरस्तादुपयाचितो यः सोऽयं वटः श्याम इति प्रतीतः ।
राशिर्मणीनां इव गारुडानां सपद्मरागः फलितो विभाति । । १३.५३ । ।
क्वचित्प्रभा चान्द्रमसी तमोभिश्मुक्तामयी यष्टिरिवानुविद्धा ।
अन्यत्र माला सितपङ्कजानां इन्दीवरैरुत्खचितान्तरेव । । १३.५४ । ।
क्वचित्खगानां प्रियमानसानां कादम्बसंसर्गवतीव ।
अन्यत्र शुभ्रा शरदभ्रलेखा भक्तिर्भुवश्चन्दनकल्पितेव । । १३.५५ । ।
क्वचित्प्रभा चान्द्रमसी तमोभिश्छायाविलीनैः शबलीकृतेव ।
अन्यत्र शुभ्रा शरदभ्रलेखा रन्ध्रेष्विवालक्ष्यनभःप्रदेशा । । १३.५६ । ।
क्वचिच्च कृष्णोरगभूषणेव भस्माङ्गरागा तनुरीश्वरस्य ।
पश्यानवद्याङ्गि विभाति गङ्गा भिन्नप्रवाहा यमुनातरङ्गैः । । १३.५७ । ।
तमिस्रया शुभ्रनिशेव भिन्ना कुन्दस्रगिन्दीवरमालयेव ।
कृत्तिर्हरेः कृष्णमृगत्वचेव भूतिः स्मरारेरिव कण्ठभासा । । १३.५७आ । ।
दृश्यार्धया शारदमेघलेखा निर्धूतनिस्त्रिंशरुचा विशेव ।
गवाक्षकालागुरुधूमराज्या हर्म्यस्थलीलेपसुधा नवेव । । १३.५७भ् । ।
तुषारसंघातशिला हिमाद्रेर्जात्याञ्जनप्रस्तरशोभयेव ।
पतत्रिणां मनसगोचराणां ठ्श्रेणीव कादम्बविहंगपङ्क्त्या । । १३.५७C । ।
नितान्तशुद्धस्फुटिकाशयोगाद्वैडूर्यकान्त्या रशनावलीव ।
गङ्गा रवेरात्मजया समेता पुष्प्यत्युदारं परभागलेखा । । १३.५७ढ् । ।
समुद्रपत्न्योर्जलसंनिपाते पूतात्मनां अत्र किलाभिषेकाथ् ।
तत्त्वावबोधेन विनापि भूयस्तनुत्यजां नास्ति शरीरबन्धः । । १३.५८ । ।
पुरं निषादाधिपतेरिदं तद्यस्मिन्मया मौलिमणिं विहाय ।
जटासु बद्धास्वरुदत्सुमन्त्रः कैकेयि कामाः फलितास्तवेति । । १३.५९ । ।
पयोधरैः पुण्यजनाङ्गनानां निर्विष्टहेमाम्बुजरेणु यस्याः ।
ब्राह्मं सरः कारणं आप्तवाचो बुद्धेरिवाव्यक्तं उदाहरन्ति । । १३.६० । ।
जलानि या तीरनिखातयूपा वहत्ययोध्यां अनु राजधानीं ।
तुरंगमेधावभृतवतीर्णैरिक्ष्वाकुभिः पुण्यतरीकृतानि । । १३.६१ । ।
यां सैकतोत्सङ्गसुखोचितानां प्राज्यैः पयोभिः परिवर्धितानां ।
सामान्यधात्रीं इव मानसं मे संभावयत्युत्तरकोसलानां । । १३.६२ । ।
सेयं मदीया जननीव तेन मान्येन राज्ञा सरयूर्वियुक्ता ।
दूरे वसन्तं शिशिरानिलैर्मां तरङ्गहस्तैरुपगूहतीव । । १३.६३ । ।
विरक्तसंध्याकपिशं पुरस्ताद्यतो रजः पार्थिवं उज्जिहीते ।
शङ्के हनूमत्कथितप्रवृत्तिः प्रत्युद्गतो मां भरतः ससैन्यः । । १३.६४ । ।
अद्धा श्रियं पालितसंगराय प्रत्यर्पयिष्यत्यनघां स साधुः ।
हत्वा निवृत्ताय मृधे खरादीन्संरक्षितां त्वां इव लक्ष्मणो मे । । १३.६५ । ।
असौ पुरस्कृत्य गुरुं पदातिः पश्चादवस्थापितवाहिनीकः ।
वृद्धैरमात्यैः सह चीरवासा मां अर्घ्यपाणिर्भरतोऽभ्युपैति । । १३.६६ । ।
पित्रा निसृष्टां मदपेक्षया यः श्रियं युवाप्यङ्कगतां अभोक्ता ।
इयन्ति वर्षाणि तया सहोग्रं अभ्यस्यतीव व्रतं आसिधारं । । १३.६७ । ।
एतावदुक्तवति दाशरथौ तदीयां इच्छां विमानं अधिदेवतया विदित्वा ।
द्योतिष्पथादवततार सविस्मयाभिरुद्वीक्षितं प्रकृतिभिर्भरतानुगाभिः । । १३.६८ । ।
तस्मात्पुरःसरविभीषणदर्शितेन सेवाविचक्षणहरीश्वरदत्तहस्तः ।
यानादवातरददूरमहीतलेन मार्गेण भङ्गिरचितस्फटिकेन रामः । । १३.६९ । ।
इक्ष्वाकुवंशगुरवे प्रयतः प्रणम्य स भ्रातरं भरतं अर्घ्यपरिग्रहान्ते ।
पर्यश्रुरस्वजत मूर्धनि चोपजघ्रौ तद्भक्त्यपोढपितृराह्यमहाभिषेके । । १३.७० । ।
श्मश्रुप्रवृद्धिजनिताननविक्रियांश्च प्लक्षान्प्ररोहजटिलानिव मन्त्रिवृद्धान् ।
अन्वग्रहीत्प्रणमतः शुभदृष्टिपातैर्वार्त्तानुयोगमधुराक्षरया च वाचा । । १३.७१ । ।
दुर्जातबन्धुरयं ऋक्षहरीश्वरो मे पौलस्त्य एष समरेषु पुरः प्रहर्ता ।
इत्यादृतेन कथितौ रघुनन्दनेन व्युत्क्रम्य लक्ष्मणं उभौ भरतो ववन्दे । । १३.७२ । ।
स्ॐइत्रिणा तदनु संससृजे स चैनं उत्थाप्य नम्रशिरसं भृशं आलिनिङ्ग ।
रूढेन्द्रजित्प्रहरणव्रणकर्कशेन क्लिश्यन्निवास्य भुजमध्यं उरःस्थलेन । । १३.७३ । ।
रामाज्ञया हरिचमूपतयस्तदानीं कृत्वा मनुष्यवपुरारुरुहुर्गजेन्द्रान् ।
तेषु क्षरत्सु बहुधा मदवारिधाराः शैलाधिरोहणसुखान्युपलेभिरे ते । । १३.७४ । ।
सानुप्लवः प्रभुरपि क्षणदाचराणां भेजे रथान्दशरथप्रभवानुशिष्टः ।
मायाविकल्परचितैरपि ये तदीयैर्न स्यन्दनैस्तुलितकृत्रिमभक्तिशोभाः । । १३.७५ । ।
भूयस्ततो रघुपतिर्विलसत्पताकं अध्यास्त कामगति सावरजो विमानं ।
दोषातनं बुधबृहस्पतियोगदृश्यस्तारापतिस्तरलविद्युदिव्ऽआभ्रवृन्दं । । १३.७६ । ।
तत्रेश्वरेण जगतां प्रलयादिवोर्वीं वर्षात्ययेन रुचं अभ्रघनादिवेन्दोः ।
रामेण मैथिलसुतां दशकण्ठकृच्छ्रात्प्रत्युद्धृतां धृतिमतीं भरतो ववन्दे । । १३.७७ । ।
लङ्केश्वरप्रणतिभङ्गदृढव्रतं तद्(?) वन्द्यं युगं चरणयोर्जनकात्मजायाः ।
ज्येष्ठानुवृत्तिजटिलं च शिरोऽस्य साधोरन्योन्यपावनं अभूदुभयं समेत्य । । १३.७८ । ।
क्रोशार्धं प्रकृतिपुरःसरेण गत्वा काकुत्स्थः स्तिमितजवेन पुष्पकेण ।
शत्रुघ्नप्रतिविहितोपकार्यं आर्यः साकेतोपवनं उदारं अध्युवास । । १३.७९ । ।
इति कालिदासविरचिते रघुवंशे त्रयोदशः सर्गः

टिप्पणियाँ