श्री श्रृंगीऋषिआश्रमे प्रतिवर्षवदेव अस्मिन् वर्षे अपि श्रावणझूलामहोत्सवे संत्संगायोजनं आयोजितमस्ति । अस्य सत्संगस्य वक्ता प्रख्यात् कथावाचक: आदरणीय श्री मधुरजीवर्य: अस्ति ।
श्री श्रृंगीऋषिआश्रमे प्रति वर्षे श्रावणमासे भगवत: श्रीरामस्य झूलाआयोजनं कृयते । अस्मिन् समये विविधानि आयोजनानि अपि भवन्ति यस्मिन् एकमासात्मकं मेलापकं, 10 दिवसात्मकं श्रीरामलीलायोजनं/श्रीकृष्णलीलायोजनं पुनश्च एकसप्ताहात्मकं सत्संगायोजनं भवति । श्रीभगवद्लीलायोजनाय अयोध्याया: प्रख्यात् लीलामण्डली आहूयते । अस्य सम्पूर्णव्यय: सर्वकारेण साध्यते ।
सत्संगायोजने प्रतिवर्षे नूतनकथाकारा: आहूयन्ते । अस्य सर्वं व्ययं स्थानीयजनै: साध्यते । श्रीरामजानकीमन्दिरस्य मुख्य: मुनि: श्री जगदीशदास: सर्वेषां कार्यक्रमाणां व्यवस्थापक: भवति । भगवत: लीलां द्रष्टुं, भगवन्तं झूलादालयितुं, पुनश्च सत्संगं कर्तुं श्रोतुं च बहव: जना: दूरात् अपि आगच्छन्ति । तेषां कृते भोजनवासव्यवस्थापि जगदीशबाबावर्येण एव क्रियते ।
बहव: भक्ता: मासपर्यन्तं अत्रैव भूत्वा भगवत: दर्शनपूजनादिलाभं स्वीकुर्वन्ति ।
अस्मिन् वर्षे मेलापकं तु श्रावणमासस्य प्रारम्भात् एव आयोजितमस्ति, यत् सम्प्रति प्रचलति एव । भगवत: कथाया: आयोजनसमय: 24 दिनांकत: 30 दिनांकपर्यन्तं अस्ति । तस्मिन् समये एव श्रीरामलीलापि प्रचलिष्यति ।
ये जना: द्रष्टुं श्रोतुं वा गन्तुमिच्छन्त: सन्ति ते अवश्यमेव गत्वा दर्शनलाभं स्वीकुर्वन्तु । जीवनं सार्थं च कुर्वन्तु ।
नम: लक्ष्मीपतये
0 टिप्पणियाँ