श्री श्रृंगीऋषिआश्रमधाम



101_1760अयोध्‍याया: राजा दशरथस्‍य चत्‍वार: पुत्रा: आसन् ।  तेषामुत्‍पत्तिकथा तु प्रायश: सर्वे जानन्ति ।  राज्ञा दशरथेन पुत्रेष्टियज्ञम् आयोजितम् ।  तेन भगवान् अग्नि: प्रसन्‍न: अभूत ।  स: तं प्रति चरू प्रदत्‍तवान् ।  तत् भुक्‍त्‍वा कौसल्‍या, सुमित्रा, कैकेयी च तिस्र: अपि राजमहिषय: पुत्रवत्‍य: अभवन् ।  कौशल्‍याया: पुत्ररूपेण जगत्पिता श्रीनारायण: अवतरित: अभवत् ।  स: रावणं हत्‍वा जगत: कष्‍टशान्तिम् अकरोत् ।
कथा - भगवत: श्रीरामस्‍य कथा तु वयं जानिम: एव, किन्‍तु किं भवन्‍त: जानन्ति यत् य: दशरथस्‍य पुत्रेष्टियज्ञस्‍य पुरोहित: आसीत्, किं नाम तस्‍य महात्‍मन: ।  स: आसीत् महर्षि: माण्‍डव्‍यस्‍य पुत्र: महात्‍मा श्रृंगीऋषि: ।  महात्‍माश्रृंगीऋषि: तपस्‍यारत: आसीत् यदा राज्ञा रोमपादेन प्रेरित: महाराज दशरथ: तं प्रति गतवान् पुत्रेष्टि यज्ञाय निवेदितुम् ।  जगकल्‍याणाय महात्‍मा श्रृंगीऋषि: तस्‍य निवेदनं स्‍वीकृतवान् ।  तेन कारितेन यज्ञेन भगवत: श्रीरामस्‍य जन्‍ममभवत् ।  तस्‍य एव महात्‍मन: आश्रम: अस्ति सरयूनद्य: तटे अयोध्‍याधामत: कदाचित् चत्‍वारिंशतकिलोमिटरमिति, उत्‍तरपूर्वदिशि ।
माहात्‍म्‍यम् - श्रीश्रृंगीऋषि धाम्न: स्‍थापना कदा अभवत् इति तु नैव जानन्ति केचिदपि ।  किन्‍तु अस्‍य प्राचीनता विषये वदन्ति केचन् वृद्धपुरुषा: महिलाश्‍च स्‍थानीयानां ग्रामाणाम् ।  अस्‍य स्‍थानस्‍य वर्तमानस्‍वरूपं तु भिन्‍नमेव किन्‍तु जना: अस्‍य पूर्वस्‍वरूपस्‍य विषये वदन्ति यत् पूर्वं तु अत्र केवलं गुहाद्वयमासीत् ।  एका तु महात्‍मन: श्रीश्रृंगीऋषे:, अपरा तु तस्‍या: भार्या माता शान्‍तादेव्‍या: ।  उभयौ अपि गुहौ परस्‍परं वामत: दक्षिणत: विराजेते ।  गुहायां महात्‍मन: श्रृंगीऋषे: मृदापिण्‍डम् अपि ।  तथैव मातु: शान्‍ताया: अपि मृदापिण्‍डमस्ति तस्‍य गुहायाम् ।  जना: एतयो: मृदापिण्‍डयो: विषये वदन्ति यत् अस्‍य क्षरणं कदापि न भवति ।  पुनश्‍च एतौ मृदापिण्‍डौ सहस्राधिकवर्षेभ्‍य: अत्रैव एवमेव विराजेते ।  एतयो: परिवर्तनं नाभवत् ।101_1763
मान्‍यता: - अस्‍य स्‍थानस्‍य विषये मान्‍यता अस्ति यत् अत्र ये केपि यत् किमपि शुद्ध-पूतमनसा याचन्‍ते तेषां ता: सर्वा: आवश्‍यकता: पूर्णा: भवन्ति ।  अत्र ये जना: आत्‍मन: समस्‍या: स्‍वीकृत्य महर्षे: मृत्‍पिण्‍डे नमन्ति तेषां ता: समस्‍या: महर्षिणा श्रृंगीऋषिणा निवार्यते ।
एवं वदन्ति जना: यत् एकदा कश्चित् ज्‍येष्‍ठक्षत्रिय: कुटिलसिंह: (काल्‍पनिकं नाम) कस्‍यचित् दुर्बलसिंह नामकस्‍य ग्रामीणस्‍य भूमि: बलात् गृहीतवान् ।  तं परिवारेण सह गृहात् निस्‍सारितवान् ।  स: दुर्बलसिंह: असहाय: सन् महर्षे: स्‍थानं प्रति गतवान् सपरिवारेण ।  तत्र स्थित्‍वा स: प्रार्थनां कृतवान् यत् - 'भो भगवन् ।  यदि भवत: इच्‍छा भवेत् चेत् अहं जीवामि नोचेत् अत्रैव जलसमाधि: स्‍वीकरिष्‍यामि परिवारेण सह सरयूनद्याम् ।  तस्‍य एतां याचनां कदाचित् महर्षि: अंगीकृतवान् ।  तक्षणमेव ग्रामीणा: एकं पंचायतम् आयोजितवन्‍त: श्रृंगीऋषिआश्रमे एव ।  तत्र सर्वे एकत्रिता: अभवन् ।  कुटिलसिंह: चापि उपस्थित: अभवत् ।  इदानीमपि कुटिलसिंह: तस्‍य भूमिम् आत्‍मन: एव वदति स्‍म ।  तदानीमेव साक्षात् महात्‍माश्रृंगीऋषे: गुहात: एक: विषधर: कृष्‍णवर्णीय: सर्प: आगत्‍य सर्वेषां मध्‍ये उपविष्‍ट: सन् मनुष्‍यवाण्‍याम् अवदत् यत् एषा भूमि: अस्‍य दुर्बलसिंहस्‍य एव अस्ति ।  कुटिलसिंह: तु मिथ्‍याभाषक: ।  इति 101_1753
एतत् चमत्‍कारं दृष्‍ट्वा सर्वे जना: आश्‍चर्यचकिता: अभवन् ।  स: दुष्‍ट: कुटिलसिंह: नितरां लज्जित: अभवत् ।  तस्‍य मानसिकवेदना एतावती वर्धिता यत् स: तदा एव प्रमत्‍त: अभवत् ।  तस्‍य मानसिकदशा विकृता अभवत् ।  दुर्बलसिंह: तु न्‍यायं प्राप्‍य भगवत: श्रृंगीऋषे: महिमां गीत्‍वा गृहं प्रति गतवान् ।  तदा आरभ्‍य तत्र जना: मन्दिरनिर्माणं कारितवन्‍त:, पूजापाठादिकं च आरब्‍धवन्‍त: ।  इति
101_1757प्रभाव: - प्रतिवर्षे सरयूनद्यां वर्षाकाले जलप्रवाह: वर्धते ।  सरयूतटे स्थिता: शताधिका: ग्रामा: च विस्‍थापिता: भवन्ति किन्‍तु साक्षात् सरयूनद्यामेव स्थित: श्रृंगीऋषिआश्रम: कदापि न विस्‍थापित: ।  अत्र जलाप्‍लावनस्‍य समस्‍या कदापि न विद्यते ।  अत्र यानि सोपानानि अवस्थितानि सन्ति तेषु सोपानेषु अन्तिमसोपानपर्यन्‍तम् आगत्‍य सरयूजलं प्रतिगच्छति ।  कदापि अन्तिमसोपानस्‍य उल्‍लंघनं नैव करोति ।
सम्‍प्रति अत्र बहूनि मन्दिराणि निर्मितानि सन्ति येषु श्रीरामजानकीमन्दिरं सर्वतो प्राचीनम् अस्ति ।  तत्र महात्‍मा Sri Sringirishi Ashram-Awadh jiश्रीजगदीशदास: मुख्‍यपूजक: अस्ति ।  तत्र अन्‍यमन्दिरेषु प्रमुखमन्दिराणि श्रीराधाकृष्‍णमन्दिरं, श्रीलक्ष्‍मीनारायणमन्दिरं, श्रीनाउबाबाहनुमानमन्दिरं, श्रीदुर्गामन्दिरं, श्रीबिहारीबाबामन्दिरं इत्‍यादीनि सन्ति ।  प्रतिवर्षे अत्र श्रीरामनवमीअवसरे मेलापकम् आयोज्‍यते ।  श्रावणमासे झूलामहोत्‍सव: भवति ।  वर्षे एकबारं सत्‍संगमपि आयोज्‍यते ।  सर्वाणि कार्याणि स्‍थानीयग्रामा: ईशापुरं, शेरवाघाट, सुजानपुरं इत्‍यादया: मिलित्‍वा साधयन्ति ।  अत्र आगत्‍य जनानां सर्वा: मनोकामना: स्‍वयमेव पूरित: भवति ।  इति .......

टिप्पणियाँ

  1. क्षमा करें लेकिन आप जैसे संस्कृत लेखक को 'शृ' की वर्तनी गलत लिखते देख हैरान हूँ।

    श्रृंखला --> शृंखला

    जवाब देंहटाएं
  2. mitr vaisa likhna meri majboori thi, kyunki unicode me dusra vala shri kaise likhte hain mujhe nahi pata, ab aapne yahan likh diya hai to copy kar lunga

    जवाब देंहटाएं

एक टिप्पणी भेजें