श्रीहरिशरणाष्‍टकम्

ध्‍येयं वदन्ति शिवमेव हि केचिदन्‍ये

शक्तिं गणेशमपरे तु दिवाकरं वै ।

रूपैस्‍तु तैरपि विभासि यतस्‍त्‍वमेव

तस्‍मात्‍तवमेव शरणं मम दीनबन्‍धो ।।1

 

नो सोदरो न जनको जननी न जाया

नैवात्‍मजो न च कुलं विपुलं बलं वा ।

सन्‍दृश्‍यते न किल कोपि सहायको मे

तस्‍मात्‍तवमेव शरणं मम दीनबन्‍धो ।।2

 

नोपासिता मदमपास्‍य मया महान्‍त-

स्‍तीर्थानि चास्तिकधिया न हि सेवितानि ।

देवार्चनं च विधिवन्‍न कृतं कदापि

तस्‍मात्‍तवमेव शरणं मम दीनबन्‍धो ।।3

 

दुर्वासना मम सदा परिकर्षयन्ति

चित्‍तं शरीरमपि रोगगणा दहन्ति ।

संजीवनं च परहस्‍तगतं सदैव

तस्‍मात्‍तवमेव शरणं मम दीनबन्‍धो ।।4

 

पूर्वं कृतानि दुरितानि मया तु यानि

स्‍मृत्‍वाखिलानि हृदयं परिकम्‍पते मे ।

ख्‍याता च ते पतितपावनता तु यस्‍मात्

तस्‍मात्‍तवमेव शरणं मम दीनबन्‍धो ।।5

 

दु:खं जराजननजं विविधाश्‍च रोगा:

काकश्‍वसूकरजनिर्निरये च पात: ।

ते विस्‍मृते फलमिदं विततं हि लोके

तस्‍मात्‍तवमेव शरणं मम दीनबन्‍धो ।।6

 

नीचोपि पापवलितोपि विनिन्दितोपि

ब्रूयात्‍तवाहमिति यस्‍तु किलैकवारम् ।

तं यच्‍छसीश निजलोकमिति व्रतं ते

तस्‍मात्‍तवमेव शरणं मम दीनबन्‍धो ।।7

 

वेदेषु धर्मवचनेषु तथागमेषु

रामायणेपि च पुराणकदम्‍बके वा ।

सर्वत्र सर्वविधिना गदितस्‍त्‍वमेव

तस्‍मात्‍तवमेव शरणं मम दीनबन्‍धो ।।8

 

इति श्रीमत्‍परमहंसस्‍वामिब्रह्मानन्‍दविरचितं श्रीहरिशरणाष्‍टकं सम्‍पूर्णम्

टिप्पणियाँ