सामान्‍यज्ञानम्


  1. (12 अगस्त) लंदनओलंपिक्रीडायां भारतेन 6 पदकानि विजितानि ।
  2. ओलंपिकइतिहासे भारतस्य सर्वोत्तमं प्रदर्शनमस्ति एतत् । 
  3. (12 अगस्त) लन्दनओलम्पिक्रीडायाः समापनं विविधैः आयोजनैः सह अभवत् ।
  4. (12 अगस्त) मल्लक्रीडायां सुशीलकुमारः रजतपदकं विजितवान् ।
  5. (10 अगस्त) जन्माष्टमीपर्वस्य सम्पूर्णे उत्तरभारते महोत्सवः ।
  6. (9 अगस्त) मुष्टिप्रहरणे एम.सी.मैरीकॉम काँस्य पदकं विजितवती ।
  7. (6 अगस्त) बैडमिंटन प्रतियोगितायां साइना नेहवालः काँस्यपदकं विजितवती ।
  8. (4 अगस्त) विजयकुमारः 25मी. भुशुण्डिलक्ष्यभेदप्रतियोगितायां रजतपदकं प्राप्तवान् ।
  9. (10 अगस्त) भुशुण्डिद्वारा लक्ष्यभेदस्पर्धायां गगननारंगः कांस्यं विजितवान् ।
  10. (2 अगस्त) श्रावणपूर्णिमायां रक्षाबन्धनोत्सवः सम्पूर्णे विश्वे मोदितः ।
  11. 2011 ख्रीस्ताब्दे वस्तुनिर्यातव्यवस्थायां भारतस्य प्रथमस्थानम् ।
  12. भारतस्य रक्षाअनुसंधानेन ब्रह़मोस सुपरसोनिक प्रक्षेपास्त्रस्य जुलाईमासे 29 दिनांके सफलपरीक्षणं कृतम् ।
  13. जुलाईमासस्य 27 दिनांकतः लंदनओलंपिक्रीडायाः प्रारम्भः ।
  14. जुलाईमासस्य 25 दिनांके प्रणवमुखर्जिः भारतस्य 14तमस्य राष्ट्रपतिपदस्य शपथं स्वीकृतवान् । सः पी.ए.संगमां पराजितवान् ।
  15. पद्मविभूषणसम्मानेन सम्मानिता, आजादहिन्दसैन्यस्य महिलानायिका (कैप्टन) डॉ लक्ष्मीसहगल जुलाईमासस्य 23 दिनांके दिवंगता ।
  16. (23 जुलाई) उत्तरप्रदेशसर्वकारेण 8 जनपदानां नामपरिवर्तनम् कृतम् ।
  17. (21 जुलाई) स्वदेशीतकनीकिद्वारानिर्मितः युद्धपोतः आईएनएस सहयाद्रिः भारतस्य नौसेनायां सम्मिलितः ।
  18. (22 जुलाई) प्रणवमुखर्जिः राष्ट्रपतित्वेन चितः । सः भारतस्य 14तमः राष्ट्रपतिरिति अभवत् ।
  19. राजेश खन्ना प्रसिद्धः बालिवुडअभिनेता जुलाईमासे 18 दिनांके दिवंगतः ।
  20. मिश्रदेशे प्रथमवारं जनचयनप्रक्रियया राष्ट्रपतिपदस्य चयनमभवत् । मोहम्मदमुर्शी इति राष्ट्रपतिरभवत् ।
  21. रुस्तमेहिन्द इति उपाधिधारकः विश्वद्वन्द्वप्रतिस्पर्धासम्राट् दारा सिंहः जुलाईमासस्य 12 दिनांके दिवंगतः । 
  22. (10 जुलाई) बिंबलडन टेनिस पुरुषप्रतिस्पर्धायाः (2012) एकलपुरस्कारः रोजर फेडरर विजितवान् ।
  23. (10 जुलाई) बिंबलडन टेनिस महिलाप्रतिस्पर्धायाः (2012) एकलपुरस्कारः सेरना विजितवती ।
  24. (10 जुलाई) भारतीयवायुसेनायाः तरणवर्गेण डेल्फिनेस ब्रिटेनफ्रांसयोः मध्यस्थः इंग्लिशचैनल इति द्विवारं तरितम् ।
  25. (6 जुलाई) सर्नवैज्ञानिकैः हिग्सबोसोन उत गॉड पार्टिकल (ईश्वरीयकणम्) शोधितम् ।
  26. (3 जुलाई) फुटबालक्रीडायाः गतविजेता स्पेनः फुटबालप्रतियोगितायाः यूरोचषके इटलीदेशं पराजितवान् । 
  27. (19 जुलाई) मैक्सिकोदेशस्य सम्रुदतटे सप्तमं जी20 सम्मेलनं सम्पन्नम् अभवत् ।
  28. (22 जून) राजा परवेज अशरफ पाकिस्तानस्य प्रधानमन्त्री पदमंगीकृतवान् । 
  29. (20 जून) हिन्दीभाषायाः उपन्यासकारः अरुणप्रकाशः देहल्यां दिवंगतः । 
  30. (18 जून) अनिल खन्ना अखिलभारतीयटेनिससंघस्य अध्यक्षः निर्वाचितः ।
  31. (18 जून) नीदरलैण्डदेशस्य पूर्वअन्तरराष्ट्रियक्रीडकः विम कोवेरमांसः भारतीय फुटबालवर्गस्य प्रशिक्षकः नियुक्तः ।
  32. (18 जून) भारतस्य बैडमिंटनक्रीडिका साइना नेहवालः ओपन सुपर सीरीज प्रतिस्पर्धा 2012 विजितवती ।
  33. (14 जून) राजस्थानस्य झुंझुनूजनपदस्य लुनाग्रामे जातः पाकिस्तानीगजलगायकः मेहदी हसन् कराचीजनपदे दिवंगतः ।
  34. (12 जून) स्पेनदेशस्य राफेल नडालः फ्रेंच ओपन टेनिस प्रतियोगिता 2012 सप्तमवारम् प्रतियोगितायाः पुरुषएकलपुरस्कारः विजितवान् ।
  35. (12 जून) वीरावाली सुन्दरम् सम्पतः भारतस्य नूतनः मुख्यचुनावआयुक्तः निर्वाचितः ।
  36. (11 जून) रूसदेशस्य मारिया शारापोवा फ्रेंच ओपन टेनिस 2012 प्रतियोगिता विजितवती ।
  37. (9 जून) महेशभूपतिः, सानियामिर्जा च फ्रेंच ओपन 2012 प्रतियोगितायाः मिश्रितयुगलं विजतौ ।
  38. (8 जून) पाकिस्तानेन 350 कि.मी.पर्यन्तं मारणक्षमतावान् प्रक्षेपात्र हत्फ 8 क्रूज इत्यस्य सफलपरीक्षणं कृतम् ।
  39. (7 जून) पाकिस्तानेन परमाणुशक्तिसम्पन्नः हत्फ 7 प्रक्षेपास्त्रस्य सफलपरीक्षणं कृतम् ।
  40. (6 जून) अजलनशाहकप 2012 हाकीप्रतिस्पर्धायां भारतीयहॉकीवर्गेण कांस्यपदकं विजितम् ।
  41. (6 जून) अजलनशाहकप हाकीप्रतिस्पर्धा न्यूजीलैण्डदेशेन विजितः ।
  42. (6 जून) आन्ध्रप्रदेश उच्चन्यायालयस्य न्यायमूर्तिः एम. भीमाराव लोकुरः सर्वोच्चन्यायालयस्य न्यायाधीशः नियुक्तः ।
  43. (5 जून) चीनदेशेन बैडमिंटनप्रतियोगितायाः थामसकप इति कोरियां पराज्य अनवरत पंचमवारं विजितम् ।
  44. (4 जून) जनरल विक्रम सिंहः भारतीय थलसेनायाः सप्तविंशतितमः प्रमुखः चितः ।


-->

टिप्पणियाँ