कुर्वन्‍नेवेह कर्माणि ....


कुर्वन्नेवेह कर्माणि जिजीविषेच्छतँ समाः
एवं त्वयि नान्यथेतोऽस्ति न कर्म लिप्यते नरे ।।2

अन्वयः - इह कर्माणि कुर्वन् एव शतम् समाः जिजीविषेत् ।  एवम् कर्म त्वयि नरे न लिप्यते ।  इतः अन्यथा न अस्ति ।

सरलार्थः - अस्मिन् जगति मनुष्‍या: विहितकर्माणि कुर्वन्तः सन शतवर्षपर्यन्तं जीवितुमिच्छेयुः ।  एवं विधा कृतकर्मषु मनुष्‍या: लिप्ताः न भविष्‍यन्ति ।  एतदरिक्तं कर्मबन्धनात् मोक्षस्य अन्यः उपायः नास्ति ।

ईशावास्‍योपनिषद्  - 2

टिप्पणियाँ

एक टिप्पणी भेजें