महाशिवरात्रि:


   महाशिवरात्रि: हिन्दूनां प्रमुखं पर्वम् अस्ति । अयं भगवत: शिवस्‍य प्रमुखपर्वम् अस्ति । फाल्‍गुनमासस्‍य कृष्‍णपर्वण: चतुर्दशी तिथौ शिवरात्रि: मोद्यते । एवं मन्‍यते यत् अस्मिन् दिवसे एव सृष्‍ट्यादौ मध्‍यरात्रौ भगवत: शिवस्‍य भगवता ब्रह्मणा रुद्ररूपेण अवतार: अभवत् । प्रलयवेलायाम् अस्मिन् एव दिवसे प्रदोषसमये भगवान् शिव ताण्‍डवं कुर्वन् सम्‍पूर्णं ब्रह्माण्डं स्‍व‍तृतीयनेत्रज्‍वालाद्वारा नाशयति । अतएव इदं महाशिवरात्रि: अपि कथ्‍यते ।

पौराणिककथा:-
 महाशिवरात्रिसंबन्धिततिस्र: कथा: सन्ति -

प्रथमा कथा - 
एकदा भगवती पार्वती शिवम् अपृच्‍छत्, किं व्रतं तस्‍मै सर्वाधिकं पुण्‍यं प्रदातुं शक्‍यते । तदा शिव: स्‍वयमेव अस्‍य शुभावसरस्‍य वर्णनम् अकरोत् । य: फाल्गुनकृष्‍णचतुर्दशी तिथौ रात्रौ अनश्‍नन् एव मां स्‍मरति तस्‍य कृते अहं सद्य: प्रसन्‍नो भवामि ।

द्वितीया कथा
अस्मिन् दिवसे एव भगवत: विष्‍णो:, ब्रह्मण: च पुरत: शिवस्‍य अत्‍यन्‍तं प्रकाशवान् स्‍वरूपं प्रकटितमभूत् । प्रारम्‍भकाले शिव: ज्‍योति-स्‍तम्‍भरूपेण प्रकटित: अभवत् । तस्मिन् प्रविश्‍य श्रीविष्‍णु:, श्रीब्रह्मा च तस्‍य आद्यन्‍तं प्राप्‍तुं प्रयतितवन्‍त: । किन्‍तु ज्ञातुं न शक्‍तवन्‍त: । तौ प्रत्‍यागतौ । तदा शिव: स्‍ववास्‍तविकरूपं प्रकटितवान् । स: दिवस: एव महाशिवरात्रि: इति मोद्यते ।

तृतीया कथा -
अस्मिन् दिवसे एव भगवत: शिवस्‍य सतीदेव्‍या सह विवाह: सम्‍पन्‍न: अभवत् । भगवत: शिवस्‍य ताण्‍डवनृत्‍येन भगवत्‍य: लास्‍यनृत्‍यसमन्‍वयेन एव सृष्टे: संतुलनमस्ति नोचेत ताण्‍डवनृत्‍येन ब्रह्माण्‍डं नष्‍टं भवितुमर्हति । अतएव इदं महत्‍वपूर्णदिनमस्ति ।
 
-->

टिप्पणियाँ