प्राचीन भारतीय गृहपरिश्रमाः I

   "गोरसात् (क्षीरात्)घृतकरणं,तथा तैलगुडयोः,कार्पासस्य च सूत्रकर्तनं,सूत्रस्य च वानं,शिक्यरज्जुपाश
वल्कलसङ्ग्रहणं,कुट्टन कण्डनावेक्षणम्,आचाम-मण्ड-तुष-कण-कुट्य--अङ्गाराणामुपयोजनम्, भृत्यवेतनभरणज्ञानम्,कृषिपशुपालनचिन्ता,वाहनविधियोगाः, मेष-कुक्कुट-लावक--शुक-सारिका-परभृत-मयूर-वानर-मृगाणाम् अवेक्षणम्, दैवनिकायव्ययपिण्डीकरणम् च विद्यात् ।"         
(गृहराज्यम्-भागः २---रचयिता--ब्रह्मश्री उमामहेश्वरपण्डितः----१९४७ वत्सरे मुद्रितम्)
गोरसात् घृतकरणम्------क्षीर,दधि,घृताविष्करणादीनि कृत्यानि।
तथा तैलगुडयोः----------तैल,गुडसम्बन्धीनि यान्त्रिक कृत्यानि।
कार्पासस्य च सूत्रकर्तनम्------वस्त्रार्थं सूत्रनिर्माणानि।
सूत्रस्य च वानम्----------कार्पाससूत्रैः वस्त्राणां वयनम्।
शिक्य,रज्जु,पाश,वल्कल सङ्ग्रहणम्----शिक्य,रज्जु,पाश,वल्कलानां परिश्रमः।
कुट्टन,कण्डनावेक्षणम्----अन्नार्थं धान्यादीनाम् अवहननदिकम्।
आचाम-मण्ड-तुष-कण-कुट्य-अङ्गाराणाम् उपयोगादिकम्।
भृत्यवेतनभरणज्ञानम्-------सेवकेभ्यः वेतनदानादि परिज्ञानम्।
कृषिपशुपालनचिन्ता----व्यवसायः,पशुपोषणपालनादिकम्।
वाहनविधियोगाः------वृषभाश्वादीनाम् विनियोगविधयः।
मेष-कुक्कुट-लावक-शुक-सारिका-परभृत-मयूर-वानर मृगाणां पालनपोषणादिकम्।
दैनिकायव्ययपिण्डीकरणम्---दैनिक, आदायव्ययगणनादिषु जागरूकता।
आदायव्ययविषये श्लोकः-----
"गृहव्ययाय यद्द्रव्यं दिशेत् पत्न्याः करे पतिः,
निर्वर्त्य गृहकार्यं सा किञ्चिद्भुद्ध्यावशेषयेत्।
"सावत्सरिकमायं सङ्ख्याय तदनुरूपं व्ययं कुर्यात्--अतिव्ययमसद्व्ययं वा कुर्वाणं रहसि बोधयेत्"
भारते पुरा प्रतिगृहे उपरि प्रोक्तानि कृत्यानि आसन्।
(पश्यन्तु च वात्स्यायनकामसूत्राण्यपि--४-१-३३,३४ सूत्राणि। (अनुवर्तते)
अभिवाद्य,
ऐवियन्।

-->

टिप्पणियाँ