दर्शपौर्णमासयज्ञौ ।

  सप्‍तप्रमुखवैदिकयज्ञेषु दर्शपौर्णमासयज्ञौ विशिष्‍टौ स्‍त: ।
दर्शयाग: - दर्शयागा: अमावश्‍यायां करणीयानां त्रयाणां यज्ञानां समन्‍वयमस्ति ।  एते त्रय: यज्ञा: क्रमश:
1- अग्निप्रीत्‍यर्थकपुरोडाशयाग: 
2- इन्‍द्रप्रीत्‍यर्थकपुरोडाशयाग:, 
3- इन्‍द्रप्रीत्‍यर्थकपयोद्रव्‍ययागश्‍च सन्ति ।

पौर्णमासयाग: - एते यज्ञा: पूर्णिमायां क्रियन्‍ते ।  पौर्णमासयज्ञेषु अपि त्रयाणां यज्ञानां समन्‍वयमस्ति ।  एते तु क्रमश:
1- अष्‍टकपालपुरोडाशयाग: 
2- उपांशुयाग:,
3- एकादशकपालपुरोडाशयागश्‍च वर्तन्‍ते ।
   दर्शयागानामग्न्‍याधानं अमावश्‍यायां, पौर्णमासयागानामग्‍न्‍याधानं तु पूर्णिमायां च क्रियते किन्‍तु एतयो: द्वयो: अपि यागविधि: प्रतिपदायामेव सम्‍पाद्यते ।  समानफलदायिन: सन एतौ मिलित्‍वा दर्शपौर्णमासयाग इति नाम्‍नाभिधीयते ।

-->

टिप्पणियाँ

एक टिप्पणी भेजें