वैदिकविज्ञानम् 2

   लोके अस्थिरहितवीर्येण अस्थिसहितजीवानामुत्पत्तिं वयं पश्यामः। अत्र कारणमेवं वदति वेदः-----
श्रुतिः(वेदः)      "ब्रह्मवादिनो वदन्ति,कस्मात्सत्यादनस्थिकेन
               प्रजाः प्रवीयन्ते स्थन्वतीर्जायन्त इति यद्धिरण्यं
               घृतेऽवधाय जुहोति,तस्मादनस्थिकेन प्रजाः प्रवीयन्ते
               स्थन्वतीर्जायन्ते"॥       (कृ.य.सं.६.कां.१ प्र.७ अनु.)
अत्र श्रुतिः प्रश्नोत्तररूपेण अस्ति। लोके अस्थिरहितवीर्येण गर्भोत्पत्तिर्भवति। परन्तु,जननसमये प्रजाः अस्थिभिः जायन्ते।अत्र किं कारणमिति विशङ्कमानः वेदः वदत्येवम्------
यज्ञे द्वितीयदिवसे प्रायणीयेष्टिसम्बन्धित "ध्रुवा" नाम्नि पात्रे स्थितमाज्यं "जुहुः" नाम्नि पात्रे चतुर्वारं
निक्षिपन्ति। ततः जुहूस्थिते आज्ये दर्भेण शिथिलं यथा तथा बद्धं सुवर्णाङ्गुळीयकं निक्षिप्य तदाज्यं
होमं कुर्वन्ति। एतत्कठिनद्रव्यरूपमङ्गुळीयकमाज्ये निक्षिप्य हवनेन सृष्टौ कठिनैरस्थिभिः प्रजाः जन्म लभन्तेऽति वेदः समाधानं ददाति।
लोके दृश्यमानसङ्घटनानां कारणानि वेदे दृश्यन्ते। अनेन सङ्घटनेन लोकस्य वेदस्य च मध्ये पारस्परिकसम्बन्धोऽस्तीति ज्ञायते।
अभिवाद्य,
ऐवियन्।
-->

टिप्पणियाँ