गर्भस्थशिशोः विचारः

श्लो॥ पूर्वयोनिसहस्राणि दृष्ट्वा चैव ततो मया ।
आहारा विविधा भुक्ताः पीता नानाविधा स्तनाः ॥
जातश्चैव मृतश्चैव जन्म चैव पुनः पुनः ।
यन्मया परिजनस्याऽर्थे कृतं कर्म शुभाशुभम् ॥
एकाकी तेन दह्येऽहं गता स्ते फलभागिनः ।
अतो दुःखोदधौ मग्नो न पश्यामि प्रतिक्रियाम् ॥
यदि योन्याः प्रमुच्येऽहं तत्प्रपद्ये सनातनम् । 
अशुभक्षयकर्तारं फलमुक्तिप्रदायकम् ॥
यदि योन्याः प्रमुच्येऽहं ध्याये ब्रह्म सनातनम् ॥---
(अर्थः) मातृगर्भे स्थितस्य शिशोः पूर्वज्ञानं भवति ।  तेन गतासु अनेकासु योनिषु स्वस्य जननं स्मरन् एवं चिन्तयति --- "पूर्वेषु जन्मसु मया बहुविधाः आहाराः भुक्ताः ।  बहुविधाः मातृस्तना च पीताः ।
     एकैकस्याः मातुः गर्भे उषित्वा जातः मृतश्चाहम्। पुनः पुनः जननं पुनः पुनः मरणमपि अनुभूतं मया।एवं बहुषु जन्मसु मम कृते मम परिजनस्य कुटुम्बगतस्य च कृते शुभाशुभकर्माणि बहूनि कृतवानहम्। सर्वोऽपि परिजनः मत्तः कर्माणि कारयित्वा तत्फलमनुभूय मां त्यक्त्वा गताः।
     अहं तु एकाकी कर्मफलमनुभवामि। दुःखसागरे निमग्नोऽहम्।कथमिदं कष्टं निवारयितुं शक्नोमि? गर्भवासः नरको भवति।यदि नरकादस्मात् विमुक्तो भवामि तर्हि मम अशुभकर्मजातं नाशयित्वा मुक्तिं प्रसादयितुं भगवन्तं सेविष्ये" इति । 
(वेदसाररत्नावळीतः सङ्गृहीतः--रचयिता ब्रह्मश्री उप्पुलूरि गणपतिशास्त्रिणः)
    अत्र किञ्चित् शास्त्रविज्ञानमस्ति। पुनर्जन्म अस्तीति, गर्भस्थशिशोः पूर्वजन्मज्ञानं भवतीति च ज्ञायते ।  जन्म न शाश्वतमिति परोपकारार्थमिदं शरीरमिति च तत्त्वं बोधयत्येष विषयः ।
 
अभिवाद्य,
ऐ.वि.नरसिंहाचार्यः।
-->

टिप्पणियाँ