लृट्, लुट् च लकारयो: प्रयोग: - 4

अभिज्ञावचने लृट् ।3।2।112।

वाक्‍ये अभिज्ञावचनं (स्‍मरणार्थबोधकशब्‍दा:) भवेत् सन् लड्. लकारस्‍य स्‍थाने लृट् लकारस्‍य प्रयोग: भवति ।  यथा -

स्‍म‍रसि कृष्‍ण गोकुले वत्‍स्‍याम: ।
(हे कृष्‍ण तुम्‍हें याद है, हम गोकुल में रहते थे) ।

'आश्‍चर्य' अर्थे लृट् लकार: भवति ।  यथा -

आश्‍चर्यम् अन्‍धो नाम कृष्‍णं द्रक्ष्‍यति ।
(आश्‍चर्य है कि अन्‍धा कृष्‍ण को देखेगा) ।

'निश्‍चयार्थक' 'समर्थबोधक' च शब्‍दयो: कृते अलं शब्‍दस्‍य प्रयोगे लृट् लकारस्‍य प्रयोग: भवति ।
यथा -

अलं कृष्‍णो हस्तिनं हनिष्‍यति । 

इति

टिप्पणियाँ